________________
३ अध्यायः]
काव्यालंकारः।
ताम् । किं तहीदानी करोतीत्याह-तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रसप्रधानं सा स्मरति ध्यायति । अहर्निशं दिवानिशम् । अत्र न देशविभागेनावृत्ति प्यवयवविभागेन । यतो द्रुतविलम्बिताख्यं द्वादशाक्षरमेतद्वत्तम् । अस्यार्धे षडक्षराणि । अत्र च प्रथममक्षरं मुक्ता त्रीणि यमकितानि ॥ तथाकमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम् । किमिति नाधिगता घिगतादृशं मधुकरेण बताणवता कृतम् ॥ ५८ ॥
कमलिनीति । इयं कमलिनी पद्मिनी किमिति तस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता । धिक्कष्टम् । तेनाणवता शब्दवता तादृशमयुक्तं कृतम् । धिग्बतशब्दावत्र खेदाधिक्यं सूचयतः। कीदृशी । सरसा नूतना । विकसिता प्रफुल्ला । अत एव सरसां जलाशयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यप्रालंकरणम् । अत्रापि देशावयवानपेक्षयावृत्तिः ॥ अध्यायमुपसंहरन्यमकखरूपं विषयं चाह
इति यमकमशेषं सम्यगालोचयद्भिः
सुकविभिरभियुक्तैर्वस्तु चौचित्यविद्भिः । सुविहितपदभङ्गं सुप्रसिद्धाभिधानं
तदनु विरचनीयं सर्गबन्धेषु भूम्ना ॥ ५९॥ इतीति । इति पूर्वोक्तं यमकमशेषं सर्व समस्तपादैकदेशजं सम्यग्यथान्यायमालोचयद्भिः सत्कविभिरभियुक्तैः सावधानैः । तथा वस्तु च विषयभागमालोचयद्भिः । यथा कस्मिन्रसे कर्तव्यम् , क्व वा न कर्तव्यम् । यमकश्लेषचित्राणि हि सरसे काव्ये क्रियमाणानि रसखण्डनां कुर्युः । विशेषतस्तु शृङ्गारकरुणयोः । कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम् । यदुक्तम्-'यमकानुलोमतदितरचक्रादिभिदो हि रसवि. रोधिन्यः अभिधानमात्रमेतद्गडरिकादिप्रवाहो वा ॥' प्रयोगस्तु तेषां खण्डकाव्येषु देव. तास्तुतिषु रणवर्णनेषु च । तदेवाह-औचित्यविद्भिरिति । औचित्यं यमकादिविधानास्थानस्थानादिकं विदन्ति ये तैः । कीदृशं यमकम् । सुष्ठ विहिता हृदयंगमाः पदभङ्गा यत्र तत्तथाभूतम् । तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम् । तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम् । भूम्रा बाहुल्येन सर्गबन्धेषु महाकाव्येषु । नाटककथाख्यायिकादिषु पुनः खल्पमेवेत्यर्थः ॥ . इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत
स्तृतीयोऽध्यायः समाप्तः।