________________
काव्यमाला।
चतुर्थोऽध्यायः। यमकं व्याख्याय श्लेषं व्याचिख्यासुराह
वक्तुं समर्थमर्थ सुश्लिष्टाक्लिष्टविविधपदसंधि ।
युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः ॥ १ ॥ वक्तुमिति । यत्रालंकारे युगपत्तुल्यकालमेकप्रयत्नेनैवानेकं यादिकं वाक्यं विधीयेत सश्लेषः।युगपत्पदग्रहणान्महायमकादीनां श्लेषत्वनिवृत्तिः। कीदृशम् । वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थ शक्तम् । अनेकमितीहापि द्रष्टव्यम् । तथा सुष्ठ श्लिष्टः सुप्रयोजितोऽक्लिष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिङन्तानां संधिरेकीभावो यत्र तत्सुश्लिष्टाक्लिष्टविविधपदसंधीति ॥ सामान्यलक्षणमभिधाय विशेषाभिधानाय श्लेषप्रकारानाह
वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम् ।
अत्रायं मतिमद्भिर्विधीयमानोऽष्टधा भवति ॥ २ ॥ वर्णपदेति । अत्र शब्दालंकारेष्वयं श्लेषो मतिमद्भिर्विधीयमानो धीमद्भिः क्रियमाणोऽष्टधाष्टप्रकारो भवति । केषां विधीयमान इत्याह-वर्णेत्यादि । वर्णश्च पदं च लिङ्गं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश्च वचनं च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानि तेषाम् । वर्णपदादिविषयभेदात्तन्नामाष्टधा श्लेष इत्यर्थः। अत्रेति परमतनिरासार्थम् । अन्यैयविशेषेण शब्दार्थयोः श्लेषोऽभ्यधायि । वर्णादिनिर्देशादेवाष्टविधत्वे लब्धेष्टधेति नियमार्थम् । भेदे सत्यष्टधैव नान्यथेत्यर्थः । केचिद्धि पदेषु लिङ्गमन्त - वयन्ति । प्रत्यये च विभक्तिवचने । विभक्तौ च वचनम् । तदेतत्र चारु । भेददर्शनात् । तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः, कोऽप्यर्थः। इत्यत्र पदश्लेषेऽपि लिङ्गश्लेषो न विद्यते ।सर्वत्र पुंलिङ्गत्वात्। तथा पद्मो निधिः, पद्म कमलम् ,पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम् । तथा तपनस्यायं तापयतीति वा तापनः । इत्यादिषु प्रत्ययभेदेऽपि विभक्तिवचनभेदो न विद्यते । तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छोभनं मुखं यासां ताः सन्मुख्यः इत्यत्र वचनभेदेऽपि विभक्तिभेदो न विद्यते । इति भेदप्रतीतेन शोभनोऽन्तर्भाव इति ॥ यथोद्देशस्तथा निर्देश इत्यादौ वर्णश्लेषलक्षणमाह
यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति । वर्णानां विविधानां वर्णश्लेषः स विज्ञेयः ॥ ३ ॥ यत्रेति। यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्णश्लेषः। विरूपाणां कथं सादृश्यमित्याह-विभक्तिबलात्प्रत्ययबलाद्वर्णबलाचेति ॥