SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] काव्यालंकारः। उदाहरणमिदम् साधौ विधावपर्तावपराहावास्थितं विषादमितः। . आयासि दानवत्त्वं तद्धर्म्य परमकुर्वाणः ॥ ४ ॥ साधाविति । अत्र महासत्त्वो दरिद्रो वर्ण्यते-कश्चिन्नरो दानवतो भावो दानवत्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोऽसंपादयन्विषादमितः प्राप्तः। कीदृशं दातृत्वम् । विधिदैवं तस्मिन्नास्थितमायत्तम् । दैवाधीनमित्यर्थः । दैवेऽनुकूले भवतीति भावः । कीदृशे विधौ । सहाधिभिर्वर्तत इति साधिस्तस्मिन् । नित्यमेव मनःपीडावह इत्यर्थः । तथापी सदा संनिधानादपगतोऽतुः कालविशेषो यस्य सोऽपतुस्तस्मिन् । तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्च सर्पश्च पीडाकारित्वादपराहिस्तस्मिन् । अपरस्याहेर्नकुलादिहिसको भवति, अस्य तु नैव । अन्यच कीदृशं दानवत्वम् । आयास्यघटनादभीक्ष्णं खेददायि । तथा धयें खभावतो धर्मादनपेतम्, अत एव परं श्रेष्ठम् । एष एकस्य वाक्यस्यार्थः ॥ अपरस्य तु-साधावित्यादि कश्चिद्वाणासुरमाह-हे दानव दनुसुत, त्वं बाणो बाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदृशं शिवम् । विधौ चन्द्रमस्यास्थितमास्था संजातास्येति तम् । कीदृशे विधौ । साधौ सुन्दरे । तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन् । सदावस्थिते। तथापगतो राहुर्विधुंतुदो यस्मादसौ तथाविधस्तस्मिन् । किमिति तत्सकाशमायासीत्याह-तस्य हवें स्थानं तद्धर्म्य यतः परमोत्कृष्टा कुर्भूमिः । निर्वाणपदमित्यर्थः । साधावित्यादाविकारोकारयोः स. प्तमीविभक्तिवशादैकरूप्यम् । आस्थितमितः प्रभृतिषु प्रत्ययवशात् । तद्धर्म्यमित्यत्र धकारहकारवर्णवशादिति । परमकुर्वाण इत्यत्रैकत्रौष्ठयोऽन्यत्र दन्त्यौष्ठयो वकारस्तत्कथमेकरूपता वणोनाम् । सत्यम् । यमकश्लेषचित्रेषु बवकारयोरोष्ठयदन्यौष्ठययोरभेदो दृश्यते । यथा-'तस्यारिजातं नृपतेरपश्यदबलं वनम् । ययौ निर्भरसंभोगैरपश्यदवलम्बनम् । तथा नकारणकारयोश्च न भेदः। यथा-वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्' इति शिवभद्रस्य । विसर्जनीयभावाभावयोश्च न विशेषः । यथा-'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजा यथा ॥' अत्र ह्येकत्राजायथा इति विसर्गान्तं क्रियापदम्, अपरत्र यथाशब्दोऽव्ययम् । तथान्ययोर्मकारनकारयोश्च न भेदः। यथा-'प्रापयासुरथं वीर समीरसमरंहसम् । द्विषतां जहि निःशेषपृतनाः समरं हसन् ॥' अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम् । तथा व्यन्जनात्परस्यै. कस्य व्यजनस्य द्वयोर्वा न विशेषः । यथा-'शुक्ले शुक्लेशनाशं दिशति' इत्यादौ शुक्ले शुक्ले यमकः । तस्मिंश्चैकत्र शुक्लगुणयुक्त, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः । अत्र ह्येकत्र ककाराल्लकार एवैकं व्यञ्जनम्, अन्यत्र ककारो लकारश्च द्वयमिति ॥ अथ पदश्लेषः यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः। पदभङ्गेषु विविको विज्ञेयोऽसौ पदश्लेषः ॥ ५ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy