Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
काव्यमाला।
यमकं जनयन्ति । एवमाद्यन्तान्यर्धार्धानि परिवृत्त्याद्यन्तं नाम कुर्वन्ति । तदुभययोगे समकालं काश्चीयमकं जनयन्ति । तथाशब्दः समुच्चये ॥ तत्रोदाहरणत्रयं क्रमेणाह
सन्तोऽवत बत प्राणानिमानिह निहन्ति नः।
सदाजनो जनोऽयं हि बोद्धं सदसदक्षमः ॥ ४५ ॥ सन्त इति । कश्चिदाह-हे सन्तः शिष्टाः, नोऽस्माकं प्राणानवत रक्षत। हि यस्मादयं जनो लोक इहात्रेमान्प्राणानिहन्ति हिनस्ति । बतेति खेदे । कीदृशो जनः । सदाजनः सतां क्षेप्ता । तथा सञ्चासच युक्तायुक्तं बोढुं ज्ञातुमक्षमोऽसमर्थः । इति मध्यम् ॥
दीना दूनविषादीना शरापादितभीशरा ।
सेना तेन परासे ना रणे पुंजीवितेरणे ॥ १६ ॥ दीना इति । कश्चित्कस्यापि कथयति-हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमूः परासे क्षिप्ता । कीदृशे रणे । पुंजीवितस्येरणे क्षेप्तरि । सेना कीदृशी । दीना निष्पौरुषा । तथा दूनः परितप्तो विषादी विषण्ण इनः खामी यस्याः सा तथाभूता । तथा शरैर्बाणैरापादिता भीर्भयं शरो हिंसा च यस्याः सा तथा । इत्याद्यन्तम् ॥
या मानीतानीतायामा लोकाधीरा धीरालोका ।
सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम् ॥ १७ ॥ येति । कश्चिद्दतः खसेनासंदेशं राज्ञः कथयति-सा त्वदीया सेना पृतना, आरं रिपुसमूहम्, हत्वा विनाश्य, आह ब्रवीति । त्वा भवन्तम् । किं ब्रवीति । सारं प्रधानं वस्तु। शत्रवो जिता इति निवेदयतीत्यर्थः। तस्यैव सारत्वादिति । कीदृशी। या मानिभिर्मनखिभिरिताधिष्ठिता। तथा आनीतः संपादितः परबलखीकारेणायामो विस्तारो यस्याः सा तथाभूता । लोकानामाधीर्मनःपीडा ईरयति सा लोकाधीरा । तथा धीरो निर्भय आलोकः प्रेक्षणं यस्याः सा तथाभूता । सेना सदण्डनायका, असन्ना सोत्साहा, आसन्ना निकटा । इति काश्चीयमकम् । पादसमुद्गकभेदवदन्तादिकादियमकभेदवच्छेहापि सर्व एव भेदा द्रष्टव्या इति ॥ ___ 'पादं द्विधा त्रिधा वा विभज्य' (३।२०) इत्युक्तम्, तत्र द्विधा विभक्के यमकान्या. ख्यायेदानी त्रिधा विभक्तस्याह
पादस्त्रिधा विभक्तः सकलस्तस्यादिमध्यपर्यन्ताः।
तेष्वपरत्रावृत्त्या दश दश यमकानि जनयन्ति ॥ १८॥ पाद इति । यस्य पादस्य त्रिधा भागः संभवति स त्रिधा खण्डितस्ततश्च तस्यादिमध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्रमं यमकिता दश दश यमकानि पूर्ववज्जनयन्ति । एवं त्रिंशद्यमकानि भवन्ति ॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188