Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
२४
कामाला |
1
सभाजनेनेति । 'कस्यचिद्राज्ञो मन्त्रिणः पौरैस्तिरस्कृताः । ततस्तस्य खसभ्याधिक्षेपजातकोपस्यापरागभयात्पौराननिगृह्णतः कान्तिभ्रंशो बभूव । ततः कस्मिंश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः । ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे । ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप' इति समुदायार्थः । पादानां त्वेवं योजना । कश्चित्सभ्यः परस्य कथयति - सभाजनेन सभ्यलोकेन । मन्त्रिजनेनेत्यर्थः । उपरि पृष्ठतः, पूः पौरजनता । इता प्राप्ता, असौ । एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः । कदा । सभां सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौरजने । न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खड्गा येन स ऊरितासिस्तस्मिन्नेवंविधे । अनुद्यतखङ्ग इत्यर्थः । अत एव जनानामिनः स्वामी जनेनो राजा, सह भासा वर्तते इति सभाः सदीप्तिकः संवृत्तः । अन्यच कीदृशे पौरलोके । अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन् । मृततुल्य इत्यर्थः । तथा सभाजने । 'सभाज प्रीतिदर्शने' इत्यस्मात्कर्तरि ल्युट् । नोऽस्माकं प्रीतिकरे । पूजक इत्यर्थः । अत एवास्माकं पूर्वप्रक्रान्तो जनेनः, अवतीत्यूः । रक्षिता संपन्न इत्यर्थः । कथम् । अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम् । किंभूते पौरलोके । इतासौ इता प्राप्ता असुः अपूजा येन तस्मिन् । अधिगतमानभ्रंश इत्यर्थः । ' परिप्रतिगतार्थौ तु सु पूजायां यदा भवेत् । अतिरतिक्रमणे चैव नोपसर्गा इमे तदा ॥' इति सर्वपादजं पक्तियमकम् ॥
भूयोऽपि भेदान्तरमाह -
परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण ।
मुखपुच्छयोश्च योगाद्युग्मकमिति पादजं नवमम् ॥ १३ ॥ परिवृत्तिरिति । पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे परिवृत्तिर्नाम यमकं भवति । तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगाद्युग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति ॥
तत्र परिवृत्त्युदाहरणम् -
मुदा रतासौ रमणीयता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥ १४ ॥
मुदेति । एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसृतं नायकमाह - असौ रमणी स्त्री त्वयि रता । मुदा प्रीत्या । नतु धनलोभादिना । यता त्वदागमनार्थे प्रयत्न - परा । यां त्वं वोढा परिणेता । अदोऽलं निःसंदेहं स्मरसि ध्यायसि । कीदृशस्त्वम् । कुरुतेनोपलक्षितः । कुत्सितं रुतं कुरुतं तेन । यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम् । ननु यदि सा मानिनी तत्किमनुनयार्थे त्वं प्रेषितेत्याह --- यस्मादुदारतास औचित्यमिदम् । रमणीयतायां रमणीयत्वे । यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति । अनवोढां प्रगल्भां नायिकाम् ॥
१. नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु'सभाज प्रीतिदर्शनयोः इति पाठो दृश्यते.

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188