SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ कामाला | 1 सभाजनेनेति । 'कस्यचिद्राज्ञो मन्त्रिणः पौरैस्तिरस्कृताः । ततस्तस्य खसभ्याधिक्षेपजातकोपस्यापरागभयात्पौराननिगृह्णतः कान्तिभ्रंशो बभूव । ततः कस्मिंश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः । ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे । ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप' इति समुदायार्थः । पादानां त्वेवं योजना । कश्चित्सभ्यः परस्य कथयति - सभाजनेन सभ्यलोकेन । मन्त्रिजनेनेत्यर्थः । उपरि पृष्ठतः, पूः पौरजनता । इता प्राप्ता, असौ । एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः । कदा । सभां सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौरजने । न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खड्गा येन स ऊरितासिस्तस्मिन्नेवंविधे । अनुद्यतखङ्ग इत्यर्थः । अत एव जनानामिनः स्वामी जनेनो राजा, सह भासा वर्तते इति सभाः सदीप्तिकः संवृत्तः । अन्यच कीदृशे पौरलोके । अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन् । मृततुल्य इत्यर्थः । तथा सभाजने । 'सभाज प्रीतिदर्शने' इत्यस्मात्कर्तरि ल्युट् । नोऽस्माकं प्रीतिकरे । पूजक इत्यर्थः । अत एवास्माकं पूर्वप्रक्रान्तो जनेनः, अवतीत्यूः । रक्षिता संपन्न इत्यर्थः । कथम् । अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम् । किंभूते पौरलोके । इतासौ इता प्राप्ता असुः अपूजा येन तस्मिन् । अधिगतमानभ्रंश इत्यर्थः । ' परिप्रतिगतार्थौ तु सु पूजायां यदा भवेत् । अतिरतिक्रमणे चैव नोपसर्गा इमे तदा ॥' इति सर्वपादजं पक्तियमकम् ॥ भूयोऽपि भेदान्तरमाह - परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण । मुखपुच्छयोश्च योगाद्युग्मकमिति पादजं नवमम् ॥ १३ ॥ परिवृत्तिरिति । पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे परिवृत्तिर्नाम यमकं भवति । तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगाद्युग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति ॥ तत्र परिवृत्त्युदाहरणम् - मुदा रतासौ रमणीयता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥ १४ ॥ मुदेति । एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसृतं नायकमाह - असौ रमणी स्त्री त्वयि रता । मुदा प्रीत्या । नतु धनलोभादिना । यता त्वदागमनार्थे प्रयत्न - परा । यां त्वं वोढा परिणेता । अदोऽलं निःसंदेहं स्मरसि ध्यायसि । कीदृशस्त्वम् । कुरुतेनोपलक्षितः । कुत्सितं रुतं कुरुतं तेन । यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम् । ननु यदि सा मानिनी तत्किमनुनयार्थे त्वं प्रेषितेत्याह --- यस्मादुदारतास औचित्यमिदम् । रमणीयतायां रमणीयत्वे । यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति । अनवोढां प्रगल्भां नायिकाम् ॥ १. नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु'सभाज प्रीतिदर्शनयोः इति पाठो दृश्यते.
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy