SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] काव्यालंकारः । २५ अथ युग्मकम् – विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना । महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥ १५ ॥ विनेति । कश्चित्कंचिदाह - अयं महाजनः सत्पुरुषलोकः । एनोऽपराधं विना । अनपराध इत्यर्थः । अदीयत खण्ड्यते स्म । केन । यमेन । किं कुर्वता यमेन । नयतात्मसमीपं प्रापयता । तथासुखादिना प्राणभक्षणशीलेन । ऊनयता महाजन मूनीकुर्वता । सुखादिना सौख्यभक्षकेण । अथवा सुखादिनार्थेन न्यूनयता । कीदृशो महाजनः । विना विगता नरो यस्मात् । यमं प्रति पुरुषकारविफलत्वाद्विपुरुष इत्यर्थः । बहुलत्वात्को न भवति । यद्वा विनष्टो ना पुरुषो विना । पुनः महाजनः कीदृशः । मानसान्मानमहंकारं सादयतीति मानसाद्रिपूणाम् । यदि वा मानसाच्चित्तात्सकाशात्सुखादिना । तथा महाजनोदी महमुत्सवमजन्ति क्षिपन्ति महाजा दुर्जनास्तान्नुदति प्रेरयतीति महाजनोदी | कथमदीयत । अरं शीघ्रम् । तथा यतमानसादरं यतमानानां मरणप्रतिक्रियाव्यापृतानां सादं खेदं राति ददातीति च क्रियाविशेषणम् ॥ एतानि नव यमकानि समस्तपादस्योक्तानि । अधुना समस्तपादयोः समस्तपादानां चाह अर्ध पुनरावृत्तं जनयति यमकं समुद्गकं नाम । श्लोकस्तु महायमकं तदेवमेकादशैतानि ॥ १६ ॥ अर्धमिति । प्रथममर्ध पुनरावृत्तं भूय उच्चरितं समुद्रकाख्यं यमकं जनयति करोति । नामशब्दः संस्थाननिषेधसूचनार्थः । तेन चित्रमध्येऽस्य नान्तर्भावः । अर्धद्वयसारूप्येण च समुद्गकसादृश्यम् । श्लोकः श्लोकान्तरे यमकितो महायमकं जनयति । तुः पुनरर्थे । श्लोक इत्येकवचनं द्वयोरूयादीनां च यमकत्वनिवृत्त्यर्थम् । यथालक्ष्येष्वदर्शनात् । एवं मुखादारभ्य महायमकान्तान्येकादशैतानि समस्तपादयमकानि भवन्ति ॥ तत्र समुद्गकम्— नाम लोको विदमानवेन मही न चारित्रमुदारधीरम् । न नामलो कोविदमानवेनम हीन चारित्रमुदारधीरम् ॥ १७ ॥ । ननामेति । लोको जनो विदं पण्डितं ननाम प्रणतः । केन । आनवेन स्तुत्या । कीदृशः । महा उत्सवाः सन्त्यस्येति मही । तथारीन्रिपुंस्त्रायतेऽरित्रा मुत्प्रमोदो यस्य स तथाभूतो न च नैव । विदं कीदृशम् । अरीणां समूह आरं तस्य धीर्बुद्धिस्तामीरयतीति `तं तथाविधम् । लोकस्तु न नामलः, अपि त्वमलो निर्मल एव । बिदं पुनः कीदृशम् । अकोविदा मूर्खास्तेषां मानमहंकारं वान्ति गन्धयन्ति नाशयन्तीत्यकोविदमानवास्तेषामिनः खामी तम् । तथाहीनचारित्रमखण्डशीलम् । उदारो विपुलाशयो धीरो धैर्योपेतः । उदारं च धीरं चेति ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy