SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ૨૬ अथ महायमकं श्लोकद्वयेनाह - सत्वारं भरतोऽवश्यमबलं विततारवम् । सर्वदारणमानैषीदवानलसमस्थितः ॥ १८ ॥ सत्त्वारम्भरतो वश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानलसमस्थितः ॥ १९ ॥ काव्यमाला | सइति । सत्त्वेति । स पूर्वप्रक्रान्तो वित् । तुशब्दः क्रियान्तरोपन्यासार्थः । आरमरिसमूहम्, भरतो भरेण, अवश्यं निश्चितम् अबलं बलरहितम्, विततारखं कृतभयार्तिविस्तीर्णनिःखनम्, सर्वदा सदा, रणं समरम्, आनैषीदानीतवान् । कीदृशोऽसौ । अवानगच्छन् । कम् । अलसं निष्क्रियं जनम् । तथास्थितोऽस्थीनि शत्रूणां तस्यति क्षयं नयतीत्यस्थित इति । तथा सत्त्वेनावष्टम्भेनारम्भा ये तेषु रतः सक्तः । कीदृशमारम् । वश्यं वशगतमथवावश्यमनायत्तम्, अवलम्बिततारवं समाश्रिततरुसमूहम् । विकीदृशः । सर्वदारणमानैषी सर्वेषां यद्दारणं विनाशनं तेन मानमिच्छतीति कृत्वा, अत एव दवानलेन दवाग्निना समं तुल्यं स्थितं स्थितिर्यस्येति । शब्दश्लेषस्यास्य च महायमकस्यायं विशेषः । तत्रैकेनैव प्रयत्नेन वाक्यद्वयमुच्चार्यते, इह तु द्वाभ्याम् ॥ एवं समस्तपादजं यमकमाख्यायेदानीमेकदेशजमाह पादं द्विधा त्रिधा वा विभज्य तत्रैकदेशजं कुर्यात् । आवर्तयेत्तमंशं तत्रान्यत्रापि वा भूयः ॥ २० ॥ पादमिति । यच्छन्दोऽर्घादिभागं ददाति तस्य पादं द्विधा त्रिधा वा विभज्य द्विखण्डं त्रिखण्डं वा कृत्वा तत्र विभकेंऽश एकदेशजं यमकं कुर्यात् । कथमित्याह - आ. वर्तयेद्यमकयेत्तमंशं विभक्तं भागम् । तत्रैवांशे प्रथमार्धानि प्रथमार्धेषु द्वितीयानि द्वितीयार्धेष्वित्यादिक्रमेण । अन्यत्र वाप्यंशान्तरैर्भूयः प्रभूतमावर्तयेत् । अंशान्तरावृत्तौ बहवो भेदा भवन्तीत्यर्थः । अपिशब्दः समुच्चये ॥ तत्रैवावृत्त्या ये भेदाः संभवन्ति तानाहआद्यर्धान्यन्योन्यं पादावृत्तिक्रमेण जनयन्ति । दश यमकान्यपरस्मिन्परिवृत्त्या तद्वदन्यानि ॥ २१ ॥ आद्यर्षानीति । श्लोकपादचतुष्टयस्य प्रथमार्धान्यपरस्मिन्पादेऽन्योन्यं परस्परं पादावृत्तिक्रमेण समस्तपादद्वययमकवद्दश यमकानि जनयन्ति । तद्वत्तथैव चान्त्यान्यपि दश जनयन्ति । तानि च. मुखसंदंशावृतिगर्भ संदष्ट कपुच्छपङ्क्तिपरिवृत्तियुग्मकसमुद्गकसंज्ञानि ॥ किं पुनरषामुदाहरणानि नोक्तानीत्याह एतदुदाहरणानां पादावृत्त्यैव दर्शितो मार्गः । इह विंशतिभेदमिदं यमकं नोदाहृतं तेन ॥ २२ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy