________________
३ अध्यायः] काव्यालंकार।
२३ य इति । यः पुरुषो राज्यं प्राप्य तस्य रक्षणादौ निश्चिन्तो भवति । तथा प्राप्त रा. ज्यमिति समुत्सहर्षः। यो रतारम्भरतः सदैव निधुवनप्रारम्भासतः । सततं स तथाविधनृपो भरतो भरेण समुद्रतारं जलनिधितरणं बाहुभ्यामारभ्य पयसि जलमध्य उ. दास्ते निष्कियो भवति । कथम् । दैवं पुराकृतं कर्म प्रमाणं यत्र तत्तथेति क्रियाविशेषपम् । यः प्राप्तराज्यो निरुद्यमः स बाहुतरणप्रवृत्तजलधिमध्यस्थितनिष्क्रियनरतुल्य इत्यर्थः । इति मध्यमपादयोर्गर्भो नाम यमकम् ॥
अथ संदष्टकम्. इदं च येन खयमात्मभोग्यतां समस्तकाञ्चीकमनीयताकुलम् ।
नितम्बबिम्बं कथमस्तु नो नृणां स मस्तकाञ्ची कमनीयताकुलम् ॥९॥ इदमिति । कश्चिद्रागी परस्त्रियं दृष्ट्वा कंचिदाह-इदं नितम्बबिम्बं श्रोणीतटं येन खयमसहायेनात्मभोग्यतां स्वोपकारितामनीयत नीतं स तथाविधो नृणां पुंसां मस्तकाञ्ची शिरोवर्ती कथं नो अस्तु कथं मा भूत् । सौभाग्यातिशयवानित्यर्थः । कीदृशं कटी. तटम् । आकुलं प्रयोगवशाच्चटुलमत एव समस्ता सम्यक्क्षिप्ता काञ्ची मेखला यतस्तत्समस्तकाञ्चीकम् । तथा च कमनीयताया रामणीयकस्य कुलं स्थानम् । अत्र द्वितीयचतु. र्थपादयोः संदष्टयमकम् ॥ पुनराह
अन्योन्यं पश्चिमयोरावृत्त्या पादयोर्भवेत्पुच्छः ।
सर्वैः सार्धे युगपत्प्रथमस्य तु जायते पतिः ॥ १०॥ . अन्योन्यमिति । पश्चिमयोस्तृतीयचतुर्थपादयोः परस्परावृत्त्या पुच्छो नाम यमकं भवेत् । तथा प्रथमपादस्य सखिभिरन्यैः सार्धं युगपत्समकालमावृत्त्या पति म यमकं जायते ॥ तत्र पुच्छः
उत्तुङ्गमातङ्गकुलाकुले यो व्यजेष्ट शत्रून्समरे सदैव ।
स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम् ॥ ११ ॥ उत्तुङ्गेति । कश्चिद्वीरो वर्ण्यते-समानी मानवान्नरोऽरिचक्रं रिपुराष्टं ससार जगाम । कीदृशः । यः समरे रणे । कीदृशे । उत्तुङ्गमातङ्गकुलाकुल उन्नतद्विपसमूहसंकुले सदैव सर्वदैव व्यजेष्टाभ्यभूत् , शत्रूनिपून् । कथम् । सारमुत्कृष्टं महारि महद्भिररैर्युक्तं चक्रमायुधविशेषमानीयादाय। कीदृशो मानी। यमं युग्मं कृतान्तमपि वा हन्तीति यमहा ।। __ अथ पतयुदाहरणम्
सभाजनेनोपरि पूरितासौ सभाजने नोपरिपूरितासौ । सभा जनेनोऽपरिपूरितासौ सभाजने नोऽपरिपूरितासौ ॥ १२ ॥