________________
काव्यमाला।
तदुदाहरणानि क्रमेणाह
चक्रं दहतारं चक्रन्द हतारम् ।
खङ्गेन तवानौ राजन्नरिमारी ॥४॥ चक्रमिति । कश्चिनृपमाह-हे राजन् , तब संबन्धिना खजेनाजौरणे आरं रिपुसतं चक्र समूहमरं शीघ्रं दहता नता अरिनारी रिपुस्त्री भर्तृवधेन हता ताडिता सती चक्रन्द । ऋन्दितवतीत्यर्थः । इति प्रथमद्वितीयपादयमकं मुखसंज्ञम् ॥ अथ संदंश:
सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५॥ सन्नारीति । कश्चिनृपस्याशिषमाह-वं विधुशेखरं हरमाराध्य ततः पृथिवीं जय । कीदृशं हरम् । सत्यश्च ता नार्यश्च समायः साध्व्यः स्त्रियस्ता बिभर्ति पोषयतीति सन्नारीभरणः स चासावुमायश्च । उमा पार्वती तां याति गच्छति तया सह संयुज्यते यस्तं तथाविधम् । वं कीदृशः । सन्नाः खिन्ना अरीभा रिपुद्विपा यत्र स तथाविधो रणः सअामो यस्य स तथा । पुनः कीदृशः । अमायो मायारहितः । सात्त्विक इत्यर्थः । अत्र प्रथमतृतीयपादयोः संदंशनामकं यमकम् ॥ अथावृति:मुदारताडी समराजिराजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम् ।
भवान्विभर्तीह नगश्च मेदिनीमुदारताडीसमराजिराजितः ॥ ६ ॥ · मुदेति । कश्चिच्चाटुककृनृपमाह-इह भवांस्त्वं नगश्चादिश्च मेदिनी भुवं बिभर्ति पोषयति धारयते च । कीदृशस्त्वम् । मुदा हर्षेण, न तु भयेन, आरताडी रिपुसमूहताडनशीलः । तथा समराजिरे रणाङ्गणेऽजितोऽपरिभूतः । तथा प्रवृद्धतेजाः प्रथितप्रतापः । धनुष्मतां धानुष्काणां प्रथमो मुख्यः । नगः कीदृशः । उदारा उन्नता यास्ताड्यस्ताडिवृक्षास्तासां समा अविषमा या राजयः पतयस्ताभी राजितः शोभितः । इह चतुर्थपादयमकमावृतिर्नाम ॥ भेदान्तरमाह
प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन ।
यमके संजायते गर्भः संदष्टकं चेति ॥ ७ ॥ प्रत्येकमिति । पश्चिमयोस्तृतीयचतुर्थपादयोर्द्धितीवेन पादेन सहावृत्त्या प्रत्येकं पृथग्यमके संजायते भवतो गर्भसंदष्टकसंहिते॥ . . तत्र गर्भोदाहरणम्यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव । समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥ ८॥