________________
३ अध्यायः]
काव्यालंकारः।
तृतीयोऽध्यायः। .. अथेदानी यमकलक्षणमाह
तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् । - पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥ १ ॥
तुल्येति । पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम् । कीदृशानाम् । तुल्या स. माना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम् । श्रुतिग्रहणाद्यत्र वर्णविकारेण षत्वरत्वादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्यादौ च सत्यपि क्रमे तुल्यश्रुतिखाभावस्तत्र यमकत्वनिरासः । क्रमग्रहणात्प्रतिलोमानुलोमसर्वतोभद्रानुप्रासादीनां यमकत्वनिरासः । नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते । मिथोऽन्या. र्थानां परस्पर भिन्नार्थानाम् । इत्यनेन तु पुनरुतस्य यमकत्वव्युदासः । यथा 'अहो रूपमहो रूपमहो मुखमहो मुखम् । अहो कान्तिरहो कान्तिस्तस्याः सारङ्गचक्षुषः ॥' इत्यादिषु । अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि । वेनेहापि यमकत्वं सिद्धं भवति । 'विजृम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रियावपुः। तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः ॥' अत्र हि वर्णानामेकाभिधेयत्वेऽपि प्रयोजनं भिद्यते । अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पद्यं विषयः । प्रायोग्रहणाद्गद्यमपि वापीति ॥ अथ परोक्तयमकभेदान्निरस्यन्खाभिमतयमकभेदांलक्षणाभिधानायाह
पूर्व द्विभेदमेतत्समस्तपादैकदेशजत्वेन ।
पादाश्लिोकानामावृत्त्या सर्वजं त्रेधा ॥ २॥ पूर्वमिति । पूर्व मूलभेदाद्यपेक्षया एतद्यमकं द्विभेदम् । केन भेदेनेत्याह-समस्ते. त्यादि । तत्र समस्तपादश्च समस्तपादौ च समस्तपादाश्चेत्येकशेषः । तथा एकदेशश्च एकदेशौ च एकदेशाश्चेति । समस्तपादजमेकदेशजं चेति भेदद्वयम् । अत्र च वक्ष्यमाणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोकवचनव्युदास इति । तत्र समस्तपादजप्रभेदानाह-पादार्धेत्यादि । पादावृत्त्या अर्धावृत्त्या श्लोकावृत्त्या च समस्तपादजं त्रेधा भवति ॥ तत्रापि पादावृत्तेस्तावद्भेदानाह
पर्यायेणान्येषामावृत्तानां सहादिपादेन ।
मुखसंदशावृतयः क्रमेण यमकानि जायन्ते ॥ ३॥ पर्यायेणेति । पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहावृत्तानां यमकितानां मुखसंदंशावृतिसंहितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते
भवन्तीति।