________________
२०
काव्यमाला।
वृत्तौ परिशिष्टा वृत्तिचतुष्टयोपयुक्तवर्णशेषाः । ते च पृथगसंयुक्ताः सन्ति । युक्ताश्वेद्भवन्ति तदा श्रव्यैः श्रुतिसुखैर्योज्या इति ॥ ललितोदाहरणमाह
मलयानिलललनोल्ललमदकलकलकण्ठकलकलललामः ।
मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ ३० ॥ मलयेति । अयं मधुर्वसन्तोऽधुना धरांपृथ्वी धिनोति प्रीणयति । किंभूतः । मलयानिलस्य मलयवायोर्यल्ललनं गमनं तेनोल्ललाः सोत्कण्ठा मदकला मदमधुरा ये कलकण्ठाः कोकिलास्तेषां यः कलकल: कोलाहलस्तेन ललामः श्रेष्ठः । अथवा स एव ललामो ध्वजो यस्य स तथा । अन्यच्च मधुरेण मधुना मकरन्देन विधुरा मत्ता भ्रमरा यस्य स तथा । अत्रान्ये उदाहृताः । घभसानां खयमुदाहरणं द्रष्टव्यम् ॥ भद्रोदाहरणमाह
उत्कटकरिकरटतटस्फुटपाटनसुपटुकोटिभिः कुटिलैः ।
खेलेऽपि न खलु नखरैरुल्लिखति हरिः खरैराखुम् ॥ ३१ ॥ ___ उत्कटेति । हरिः सिंहो न खलु नैव खेलेऽपि क्रीडायामप्याखं मूषकमुल्लिखति विदारयति नखैः । कीदृशैः । उत्कटा दृढा ये करिकरटतटा द्विपगण्डस्थलानि तेषां यत्स्फुटं प्रकटं पाटनं दारणं तत्र सुष्ठ पटुर्दक्षा कोटिरग्रं येषां तैः । तथा कुटिलैरनृजुभिः खरैस्तीक्ष्णैः । अत्र कटखाः केवलाः केवलाः पूर्वत्र न प्रयुक्ता इति परिशिष्टत्वम् ॥ अथाध्यायमुपसंहरन्यथैता वृत्तयो रचिता रमणीया भवन्ति तथाह
एताः प्रयत्नादधिगम्य सम्यगौचित्यमालोच्य तथार्थसंस्थम् । मिश्राः कवीन्द्ररघनाल्पदीर्घाः कार्या मुहुश्चैव गृहीतमुक्ताः ॥ ३२ ॥ एता इति । एताः पूर्वोक्ता वृत्तयः कवीन्द्रैः सुकविभिर्मिश्राः परस्परान्तरिताः कार्याः । किं कृत्वा । अधिगम्य ज्ञात्वा प्रयत्नात्तात्पर्येण । कथम् । सम्यगविपरीतम् । तथा औचित्यमर्थसंस्थं पात्रगतमभिधेयगतं चालोच्य विमृश्य । कीदृश्यः सत्यो मिश्राः कार्या इत्याह-अघनाल्पदीर्घाः । अघना असंहताः । वृत्तौ वृत्तिनिरन्तरलग्ना न कार्या । यदि वा अपना असंयोगाक्षराः । एवंविधा अप्यल्पदीर्घाः कर्तव्याः । एकैव वृत्तिरत्यन्तमायता न कार्या । यदि वा अल्पानि दीर्घाणि दीर्घाक्षराणि यास्विति यो. ज्यम् । एवंविधा अप्यलंकारान्तररहिता उद्वेगकारिण्यः श्रोतृणां स्युरित्याह-कार्या मुहुः पुनःपुनर्गृहीतमुक्ताः । मुहुर्मोक्तव्यः कर्तव्यश्चानुप्रास इति ॥
इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो.. . . .... द्वितीयोऽध्यायः समाप्तः। ........ .