SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] काव्यालंकारः। इत्यर्थः । तथा गलन्मतयो नश्यद्बद्धयः । विकर्णा जडास्तैरेवंभूतैः कार्याकार्य हिताहितमुक्तमुक्तमपि पुनःपुनर्भणितमपि नाकर्ण्यते न श्रूयते । कैरुक्तमित्याह-युक्ता संगता उक्तिर्वचनं येषां तैः । पयुक्ततकारस्य तयुक्तककारस्य च स्वयमुदाहरणं द्रष्टव्यमिति । एषा वृत्तिरन्यैरोज इत्युक्ता ॥ अथ परुषामाह सर्वैरुपरि सकारः सर्वे रेणोभयत्र संयुक्ताः । एकत्रापि हकारः परुषायां सर्वथा च शषौ ॥ २६ ॥ सर्वैरिति । परुषायां वृत्तौ सर्वैरुक्तैरनुक्तैश्च वर्णैरुपरिभागे सकारो युक्तो भवति । तथा सर्वे वर्णा उक्ता अनुक्ता रेफेणोभयत्रोपर्यधोभागयोः पर्यायेण युगपद्वा युक्ता भवन्ति । तथा हकारो रेफेणैकत्रोपर्यधो वा युक्तो भवति । अपिशब्दो नियमार्थः । एक. त्रैवेत्यर्थः । शकारषकारौ च सर्वथा सर्वेण प्रकारेण । रेफेणान्यैर्वा युक्तावसंयुक्तौ वेति सर्वथाशब्दार्थः ॥ उदाहरणम् लिप्सून्सर्वान्सोऽन्तर्ब्रह्मोद्यैर्ब्राह्मणैर्वृतः पश्यन् । जिहेत्यगर्यबर्हिःशेषशयः कोषशून्यः सन् ॥ २७ ॥ लिप्सूनिति । कश्चिन्महासत्त्वो दत्तसर्वस्खोऽत्र वर्ण्यते । स महासत्त्वोऽन्तर्मध्ये जिहेति लज्जते । किं कुर्वन् । पश्यन् । कान् । लिप्सूल्लब्धुकामान् । सर्वान्याचकानित्यर्थः । कीदृशः । वृतः परिगतः। कैः ब्रह्मोद्यैर्वेदपारगाह्मणैः । पुनः कीदृक् । अगद्यः प्रशस्तो यो बर्हिर्दर्भः स एव शेषमुर्वरितं तत्र शेते यः । तन्मात्रधन इत्यर्थः । लक्षणयोजना स्वयं कार्या ॥ अथास्याः सर्वत्र प्रयोगनिवारणार्थमाह परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषाम् । रचयेदथागतिः स्यात्तत्रापि हादयो हेयाः ॥ २८ ॥ परुषेति । परुषाभिधायिवचनानिष्ठुरत्वप्रतिपादनपरगिरोऽनुकरणाच्चान्यत्र परुषां वृत्तिं न रचयेत् । अथागतिर्गत्यन्तराभावः स्यात्, तत्रापि ह्रादयो हेयास्त्याज्याः । अत्यन्तपरुषत्वात् । केवलं शषादिप्रयोगः कार्यः ॥ ललिताभद्रयोलक्षणमाह ललितायां घधभरसा लघवो लश्चापरैरसंयुक्तः। परिशिष्टा भद्रायां पृथगथवा श्रव्यसंयुक्ताः ॥ २९॥ ....... ललितायामिति । ललितायां वृत्तौ घकारधकारभकाररेफसकारा भवन्ति । ते च लघवो न गुरवः । तथा लकारश्चापरैर्वणैरसंयुक्तः । आत्मना तु भवेदिति । भद्रायां तु
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy