SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मधुरा वृत्तिरित्येव न द्रष्टव्यम् । किं तर्हि । एतेषां वर्णानां मध्यादन्यतमवर्णैरनुप्रासे मधुरा वृत्तिरिति ॥ किमविशेषेणैते प्रयोक्तव्याः । नेत्याह तत्र यथाशक्ति रणौ द्विस्त्रिी युक्तितो लकारं च । पञ्चभ्यो न कदाचिद्वानूचं प्रयुञ्जीत ॥ २१ ॥ तत्रेति । तत्र तेषु वर्णेषु मध्ये रणौ यथाशक्ति यावतोः प्रयोगकरणे सामर्थ्यमस्ति तावत्प्रमाणौ प्रयोक्तव्यौ । माधुर्यलाभात् । युक्तितः संयोगाल्लकारं द्विस्त्रिा प्रयुञ्जीत । वास्तु पञ्चभ्य ऊर्ध्वमधिकं न कदाचनापि प्रयुञ्जीत । माधुर्यभङ्गप्रसङ्गादित्यर्थः ॥ एतदुदाहरणमाह भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥ २२ ॥ अनणुरणन्मणिमेखलमविरतशिञ्जानम मञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ २३ ॥ (युग्मम्) भणेति । अनण्विति । कश्चित्परमहिलां निजदयितगृहं व्रजन्तीं वीक्ष्याह-भण वद लमेव हेतरुणि, यदि त्वं निजदयितमन्दिरं व्रजसि तत्किम्। वदीयं परिसरणं मे निष्प्रयोजनमेव रणरणकं हृदयाकुलवं कुरुते । आनन्दस्यन्दि हर्षकारि सुन्दरं रम्यमिन्दुवन्मुखं यस्याः सामन्यते । तथा सल्लीलया सुविलासेनोल्लपितुं वक्तुं शीलं यस्याः सा चामन्यते । तथारुणचरणे लोहितक्रमे । कीदृशं परिसरणम् । अनणु तारं रणन्ती शब्दायमाना मणिमेखला रत्नरशना यत्र तत् । तथाविरतं शिञ्जानानि रणन्ति मनि मधुराणि मञ्जीराणि चरणाभरणानि यत्र तत् । लक्षणं तु खधिया सर्वमायोज्यम् ॥ अथ प्रौढामाह अन्त्यटवर्गान्मुक्त्वा वय॑यणा उपरि रेफसंयुक्ताः । कपयुक्तश्च तकारः प्रौढायां कस्तयुक्तश्च ॥ २४ ॥ अन्त्यटवर्गानिति । प्रौढायां वृत्तौ वाः कादयो यकारणकारौ चोपरिभागे रेफेण संयुक्ता भवन्ति । किं कृत्वा । अन्यान् अणनमान् टवर्ग च मुक्त्वा विहाय । तथा ककारपकाराभ्यामुपरिभागे तकारश्च युक्तो भवति । चः समुच्चये । तथा ककारस्तका. रेणोपरिभागे संयुक्त इत्यर्थः ॥ तत्रेदमुदाहरणम् कार्याकार्यमनायैरुन्मार्गनिरर्गलैर्गलन्मतिभिः । नाकर्ण्यते विकणैर्युक्तोक्तिभिरुक्तमुक्तमपि ॥ २५ ॥ कार्याकार्यमिति । येऽनार्या अशिष्टा उन्मार्ग कुमार्ग निरर्गला निरङ्कुशाः । स्वच्छन्दा
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy