SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः ] काव्यालंकारः । १७ यदि शल्यमपि सोढुं शक्यते तदा दुर्वचनं सुसहमेवेत्यर्थः । पूर्वपक्षे खलदुर्वचनस्य दु:सहतोत्ता, द्वितीये तु सुसहतेति भेदः ॥ अथानुप्रासलक्षणमाह एकद्वित्रान्तरितं व्यञ्जनमविवक्षितखरं बहुशः । आवर्त्यते निरन्तरमथवा यदसावनुप्रासः ॥ १८॥ एकेति । यद्व्यञ्जनं बहुशो बहून्वारानावर्त्यते । कीदृशम् । एकद्वित्रान्तरितम् । एकेन द्वित्रैर्वा व्यञ्जनैरन्तरितं व्यवहितम् । किं व्यवहितानुवर्तनमेवानुप्रासो नेत्याहनिरन्तरमथवा । एतेनैकव्यञ्जन श्लोकानामनुप्रासतोक्ता । व्यञ्जनग्रहणं खरनिरासा - र्थम् । ननु खरनिरासे कृतेऽनुप्रासस्याभाव एव स्यात् । खररहितस्यावृत्तेरनुपलम्भादित्याह — अविवक्षितखरम् | अविवक्षिताः खरा यत्र तथा । खरचिन्ता न क्रियत इत्यर्थः । बहुशोग्रहणादेकावृत्तिमात्रेण नानुप्रासः । किं तर्हि । एकद्वित्रान्तरितमनेकवारानावर्त्यते ततोऽनुप्रास इति ॥ सामान्येनानुप्रासलक्षणमभिधायेदानीमस्यैव भेदानाह मधुरा प्रौढा परुषा ललिता भद्रेति वृत्तयः पञ्च । वर्णानां नानात्वादस्येति यथार्थनामफलाः ॥ १९ ॥ मधुरेति । अस्यानुप्रासस्य पञ्च वृत्तयो भवन्ति । कुतः । वर्णानां व्यञ्जनानां नानात्वात् । व्यञ्जनानामावृत्त्यानुप्रासस्योक्तत्वाद्वर्णानामित्युक्तेऽपि व्यञ्जनानामिति गम्यते । कास्ताः । मधुरा, प्रौढा, परुषा, ललिता, भद्रा । इतिशब्दः परिसमाप्त्यर्थः । एता एव न त्वष्टौ तिस्रो वा । तथा ह्यष्टौ हरिणोक्ताः । यथा - 'महुरं परुसं कोमलमोजस्सि निहुरं च ललियं च । गंभीरं सामण्णं च अद्धभणिति उनायचा ॥' अत्रौजस्खिनिष्टरगभीराणां न तथा भेद इत्येकत रोपादानमेव न्याय्यम् । तथा वृत्तीनां मिश्रता सामान्यम् । तच्चानुक्तमपि लभ्यते । इत्येताः पञ्चैव । तथान्यैर्ग्राम्या परुषोपनागरिकेत्युक्तं तत्र त्वसंग्रह एवेति । कीदृश्यस्ताः । यथार्थनामफलाः सान्वयनामिकाः । कुतः । इति हेत्वर्थे । सा च माधुर्यान्मधुरा, प्रौढत्वात्प्रौढा, इत्यादिहेत्वर्थो द्रष्टव्यः ॥ इदानीमासां लक्षणमाह । तत्र मधुरायास्तावत् : निजवर्गान्त्यैर्वयोः संयुक्ता उपरि सन्ति मधुरायाम् । तद्युक्तश्च लकारो रणौ च हखखरान्तरितौ ॥ २० ॥ -- निजवर्गान्त्यैरिति । मधुरायां वयः कचटतपवर्गवर्णा उपर्युपरिष्टात्संयुक्ताः सहिताः सन्ति विद्यन्ते । कैरित्याह- निजवर्गान्त्यैर्डञणनमैर्वर्णैः । तथा तद्युक्तस्तेन लकारेण युक्तो लकारः । रणौ च रेफणकारौ च । कीदृशौ । हवखरेणान्तरितौ व्यवहितौ भवतः। नन्वेकव्यञ्जनात्रृत्तिरनुप्रासलक्षणमुक्तम्, तत्किमिह बहुवर्णसद्भाव उच्यते । सत्यम् । बहुत्वाद्वर्णानां बहवोऽनुप्रासा अपीति न दोषः । एतेषां च वर्णानां युगपत्प्रयोग एव
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy