________________
काव्यमाला।
चष्टे वक्ति चान्यथा । तस्योक्तस्योत्तरं ददातीति तदुत्तरदः । यद्वचनं यद्वाक्यम् । कैर्व्याचष्टे पदभङ्गैः । पदखण्डनयेत्यर्थः । सा श्लेषवक्रोक्तिईया । वक्रोक्तिस्तु द्विविधा, श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तल्लक्षणयोश्च वैलक्षण्यानैकं लक्षणमस्तीति भेदेनाभिधानमुपपन्नम् ॥ तत्रोदाहरणमाहकिं' गौरि मां प्रति रुषा ननु गौरहं किं
कुप्यामि कां प्रेति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य
मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ १५ ॥ किमिति । इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति । कथम् । प्रणयकुपितां गौरी शंभुरनुनयन्नाह हे गौरि उमे, मां प्रति मामुद्दिश्य किं तव रुषा रोषेण । तत्प्रसीदेत्यर्थः । एतदुत्तरदायिनी सान्यथा पदभङ्गैराह-ननु गौरहं किम् । ननुरक्षमायाम् । किमहं गौस्त्वया कृता यद्गौरित्यामन्त्रयसे । कां च प्रति । मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति । पुनः शंभुमाह-अतोऽस्मादनुमानतोऽनुमानाद्वक्रवचनलक्षणान्मयि विषये त्वं कुप्यसीत्यहं जाने । भूयो भवान्याह-त्वमनुमानत एव सत्यम् । न उमा अनुमा तस्या एव नतः । अस्मदनमनं केन तव ज्ञातमित्यर्थः ॥ इदानी काकुवक्रोक्तिलक्षणमाह
विस्पष्टं क्रियमाणादक्लिष्टा खरविशेषतो भवति ।
अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ १६॥ विस्पष्टमिति । यत्र खरविशेषादर्थान्तरप्रतीतिर्भवति । कीदृशात् । विस्पष्टं स्फुटं क्रियमाणादुच्चार्यमाणात् । कीदृशी अर्थान्तरप्रतीतिः । अक्लिष्टा कल्पनारहिता सा काकुवक्रोक्तिः ॥ तत्रोदाहरणम्
शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् ।
धीरैर्नपुनरकारणकुपितखलालीकदुर्वचनम् ॥ १७ ॥ शल्यमिति । इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह-आस्तामन्यत् । शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघटनां कुर्वाणं सोढु क्षन्तुं शक्येत । कीदृशम् । हालहलेन विषेण दिग्धं लिप्तम् । धीरेधैर्योपेतैर्न पुनरकारणकुपित. खलालीकदुर्वचनमित्येकोऽर्थः । एतदेव वाक्यं काक्का खरविशेषेण वदन्समाश्वासयतियथा अपि शल्यं स्खलदन्तः सोढुं शक्येत धी रैर्न पुनरकारणकुपितखलालीकदुर्वचनम् ।
१. उदाहृतोऽयं श्लोकः सरखतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन.