________________
२ अध्यायः ]
काव्यालंकारः ।
१५
हे निर्वेदविस्मययोर्निपातः । यथा - हीमाणहे पलिस्संता हगे एदिणा नियविहिणो दुव्विलसिदेण । हीमाणहे जीवंतवच्छा मे जनणी । णं निपातो नन्वर्थे । यथा-णं भणामि । अम्महे हर्षे निपातः । हीहीभो विदूषकाणां हर्षे । शेषं प्राकृतसमं द्रष्टव्यमिति । तथा प्राकृतमेवापभ्रंशः । स चान्यैरुपनागराभीरग्राम्यत्वभेदेन त्रिधोक्तस्तन्निरासार्थमुक्तं भूरिभेद इति । कुतो देशविशेषात्कारणात् । तस्य च लक्षणं लोकादेव सम्यगवसेयम् । सामान्यं तु किंचिदिदम् । यथा न लोपोsपभ्रंशेऽधोरेफस्य । यथा— प्रखुरभ्रायरवघ्रेणेत्यादि । तद्वदभूतोऽपि क्वाप्यधो रेफः क्रियते । यथा - वाचालउनचव्रचउक्राखक्रूखीत्यादि । तथोदन्तस्य दकारो भवति । यथा - गोत्रुगंजिद्रुमलिदुचारितु इत्यादि । तथा ऋतः स्थाने ऋकारो वा भवति । यथा - तृणसमुगणिजई । पक्षे तणं इत्यादि लक्ष्यादवसेयम् । व्यत्ययो बहुलं भाषालक्षणस्य । यथा - थहकारयोः सूरसेन्यां धत्वमुक्तं मागध्यामपि भवति । आभीरीभाषा अपभ्रंशस्था कथिता कचिन्मागध्यामपि दृश्यते । सूरसेन्या मिदानींशब्दे इलोप उक्तः शुद्धप्राकृतेऽपि भवति । तथा कगचजतदपयादीनां पैशाचिक्यां स्वरशेषत्वाभावोऽभिहितः । खघघफभादीनां हत्वाद्यभावश्च सूरसेन्यामपि भवति । इत्याद्यन्यदपि सांकर्य महाकविलक्ष्यादव सेयमिति । विशेषतस्तु भाषालक्षणं ग्रन्थान्तरादवसेयमिति ॥
एवं शब्दलक्षणं गुणदोषांश्चाभिधायेदानीं तस्यालंकारान्विवक्षुराह— वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा परं चित्रम् ।
शब्दस्यालंकाराः श्लेषोऽर्थस्यापि सोऽन्यस्तु ॥ १३ ॥
वक्रोक्तिरिति । तथाशब्दः समुच्चये । अन्यैरनुक्तं चित्रं शब्दालंकारमध्ये समुच्ची - यते । परमुत्कृष्टमपरं वा । अन्यदित्यर्थः । शब्दस्येत्यर्थनिवृत्त्यर्थम् । अतश्च कश्चिदाशङ्कते — शब्दालंकार एवायं श्लेषो न त्वर्थालंकारोऽपीति तं प्रत्याह — श्लेषोऽर्थस्यापीति । किमयमेव श्लेषोऽर्थस्यापि नेत्याह -- सोऽन्यस्तु । तुरवधारणे । सोऽन्यादृक्ष एवेत्यर्थः । तेन यदन्यैरभेदेन श्लेषलक्षणमवादि तदयुक्तमित्युक्तम् । नन्वलंकारोऽलंकार्याद्भिन्नो दृष्टः। यथा पुरुषात्कटकादयः । न चैवमत्र भेदमवगच्छाम इति । सत्यम् । विद्य भेदः । यथा— 'किं गौरि मां प्रति रुषा' इति शब्दसमुदायोऽलंकार्य एव । तस्य यद्भजयन्तरेण व्याख्यानं सोऽलंकारः । अनुप्रासेऽपि प्रथमोक्ता वर्णा आवृत्ताश्चान्योन्यमलंकुर्वते । यथा हि- द्वौ साधू संगतौ परस्परमलंकुर्वाते इति । एवं यमके श्लेषे . च द्रष्टव्यम् । चित्रेऽपि स्पष्टो वर्णक्रमोऽलंकार्यो भङ्गयन्तरकृतस्त्वलंकार इति ॥ यथोद्देशं निर्देश इति पूर्व वक्रोक्तिलक्षणमाह
वक्रा तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः ।
वचनं यत्पदज्ञेया सा श्लेषवक्रोक्तिः ॥ १४ ॥
वक्रा प्रतिपादकेन तस्मादुत्तरवचनादन्यथा प्रकारान्तरेणोक्तम् । तदन्यथोक्तं व्या