Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
३ अध्यायः]
काव्यालंकारः।
तृतीयोऽध्यायः। .. अथेदानी यमकलक्षणमाह
तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् । - पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥ १ ॥
तुल्येति । पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम् । कीदृशानाम् । तुल्या स. माना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम् । श्रुतिग्रहणाद्यत्र वर्णविकारेण षत्वरत्वादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्यादौ च सत्यपि क्रमे तुल्यश्रुतिखाभावस्तत्र यमकत्वनिरासः । क्रमग्रहणात्प्रतिलोमानुलोमसर्वतोभद्रानुप्रासादीनां यमकत्वनिरासः । नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते । मिथोऽन्या. र्थानां परस्पर भिन्नार्थानाम् । इत्यनेन तु पुनरुतस्य यमकत्वव्युदासः । यथा 'अहो रूपमहो रूपमहो मुखमहो मुखम् । अहो कान्तिरहो कान्तिस्तस्याः सारङ्गचक्षुषः ॥' इत्यादिषु । अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि । वेनेहापि यमकत्वं सिद्धं भवति । 'विजृम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रियावपुः। तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः ॥' अत्र हि वर्णानामेकाभिधेयत्वेऽपि प्रयोजनं भिद्यते । अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पद्यं विषयः । प्रायोग्रहणाद्गद्यमपि वापीति ॥ अथ परोक्तयमकभेदान्निरस्यन्खाभिमतयमकभेदांलक्षणाभिधानायाह
पूर्व द्विभेदमेतत्समस्तपादैकदेशजत्वेन ।
पादाश्लिोकानामावृत्त्या सर्वजं त्रेधा ॥ २॥ पूर्वमिति । पूर्व मूलभेदाद्यपेक्षया एतद्यमकं द्विभेदम् । केन भेदेनेत्याह-समस्ते. त्यादि । तत्र समस्तपादश्च समस्तपादौ च समस्तपादाश्चेत्येकशेषः । तथा एकदेशश्च एकदेशौ च एकदेशाश्चेति । समस्तपादजमेकदेशजं चेति भेदद्वयम् । अत्र च वक्ष्यमाणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोकवचनव्युदास इति । तत्र समस्तपादजप्रभेदानाह-पादार्धेत्यादि । पादावृत्त्या अर्धावृत्त्या श्लोकावृत्त्या च समस्तपादजं त्रेधा भवति ॥ तत्रापि पादावृत्तेस्तावद्भेदानाह
पर्यायेणान्येषामावृत्तानां सहादिपादेन ।
मुखसंदशावृतयः क्रमेण यमकानि जायन्ते ॥ ३॥ पर्यायेणेति । पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहावृत्तानां यमकितानां मुखसंदंशावृतिसंहितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते
भवन्तीति।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188