Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ ____ महाकविश्रीरामचन्द्रसूरिविरचितं लक्ष्मीः किं पितुरम्बुधेः प्रतिकलं कूलेषु सङ्क्रीडते ? __ कन्या काऽपि किमस्य खेलति मुहुर्देवस्य यादःपतेः। द्वीपस्यास्य पयोधिरोधसि कृतस्थानस्य वेलोच्छल नानारत्ननिधेः किमत्रभवती लीलायते देवता ? // 11 // मैत्रेयःकाऽप्येषा सरुषः प्रभाववशतो देवस्य दैत्यस्य वा लोके शोकमलीमसेऽत्र मनुजीभावं दधौ देवता। तेनेयं सुरलोकवैभवपरीरम्भाकुलोचैस्तरां दोलोत्सालमिषेण खेचरगतिप्रागल्भ्यमभ्यस्यति // 12 // .. मित्राणन्दः एतां निसर्गसुभगां विरचय्य वेधाः : शङ्के खयं स भगवानभिलाषुकोऽभूत् / तेनापरग्रहभयाद् वियदङ्कदोला ___ दोलायितैरमनुजग्रहणां चकार // 13 // (विमृश्य) यथेयं निरुद्धदोलाकैलिः प्रतिमुहुरस्मान् कटाक्षयति तथा व्यक्तमनयापि वयं दृष्टाः / तदुत्तीर्य नेदीयांसो भवामः / .. मैत्रेयः-कथमियमुत्तीर्णा दोलातः 1 / चित्राणन्दः-न केवलमुत्तीर्णा, तरुभिस्तिरोधाय कचिदपि गता च / हा! हताः स्मः / अकाण्डक्रोधसंरुद्धचेतसा वेधसा कन्यारत्नमिदमुपदर्य त्वरिततरं तिरोधाय सत्यमस्माकमद्य यानपात्रभङ्गः कृतः / कुतः पुनरियमस्माभिरुपलभ्या / / (नेपथ्ये) खागतमतिथिभ्याम् / मैत्रेयः-कथमयं तापसः शब्दायते / (ततः प्रविशति तुन्दिलः / ) (उभौ प्रणमतः / ) तुन्दिला-खस्ति यजमानाभ्याम् / मित्राणन्दः-मुने ! देशान्तरिणो वयमनभिज्ञा अत्रत्यवृत्तान्तस्य / तत् कथय कोऽयं द्वीपः ? कथं च निर्मानुषप्रचारः / तुन्दिलः-महाभाग! भगवतः पाशपाणेवरुणाभिधानोऽयं क्रीडाद्वीपः / सततं च सान्तःपुरः पाशपाणिरत्र क्रीडतीति ब्रह्मचारिणस्तपोधना एव प्रतिवसन्ति, न
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6faef42cb0553919aefaefd4256ee852832d67bac32c18079e8c46edd6337116.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98