Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ कौमुदीमित्राणन्दरूपकम् / अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् / / सापदः परिपच्यन्ते गरीयस्योऽपि सम्पदः॥७॥ (विमृश्य मैत्रेयं प्रति ) प्रयाणप्रारम्भनिरूपितस्य शुभोदर्कसंसूचिनस्तस्य त्वदीयस्य शकुनस्य तदिदं यानपात्रभङ्गावेदितं शुभमभूत् / मैत्रेयः-सार्थवाहपुत्र! मास विषीद, अस्तमयति पुनरुदयति पुनरस्तमुपैति पुनरुदेत्यर्कः। विपदोऽपि सम्पदोऽपि च सततं न स्थालवः प्रायः॥८॥ तदेहि जानीमः कोऽयं द्वीपः 1 / (इति परिक्रामतः / ) मित्राणन्दः-(विलोक्य ) कथमिदं पुरो देवतायतनम् ?, तदस्य जगत्यां स्थित्वा मानुषं किमपि विलोकयामः। . मैत्रेयः- यथेदं सर्वतः काञ्चनमयं तथा जाने देवताविनिर्मितम् , मध्ये च भगवतः पाशपाणेः प्रतिनिधिदृश्यते / / (नेपथ्ये) नवकंतिमंडणाण वि मुत्ताणं सुत्तिसंपुडठिआणं / गुणसंगममलहंतीण निप्फलो जम्मसंरंभो // 9 // . मित्राणन्दः- अनुरूपं पतिमनासादयन्त्याः कस्या अपि लावण्यपुण्यवपुषः पक्ष्मलाक्ष्याः परिदेवितमिदम् / (नेपथ्ये) करसंबंधं काऊण अंगपरिरंभणं अदितेहिं / न विडंबिजइ मित्तेहि कित्तिएहिं सरोरुहिणी ? // 10 // मित्राणन्दः-इदमपरमस्या वराक्याः किमपि वैशसम् / यत् किल पाणिग्रहणेपि पत्यङ्गपरिरम्भालाभः / (मैत्रेयं प्रति ) क्षणं निक्षिप दिक्षु चक्षुषी / जानीहि कुतस्त्योऽयं परिदेवितध्वनिः / मैत्रेयः- ( विलोक्य ) वयस्य ! पश्य निकषा सहकारखण्डदोलाधिरूढां प्ररूढप्रौढयौवनाश्चितां वनिताम् / मित्राणन्दः-(सवितर्कम् ) 1) प्रतिनिधिः प्रतिमा इत्यर्थः / 2) नवकान्तिमण्डनानामपि मुक्तानां शुक्तिसम्पुटस्थितानाम् / गुणसङ्गममलभमानानां निष्फलो जन्मसंरम्भः // .. 1) करसम्बन्धं कृत्वा अङ्गपरिरम्भणमददानैः / न विडम्ब्यते मित्रैः कियद्भिः सरोरुहिणी 1 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dbc9fae45f05293085bdaace1724e5db6064f1c832da8af780d35643f65362c4.jpg)
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98