Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 92
________________ , कौमुदीमित्राणन्दरूपकम् / “जनमहितमहिम्नां विष्णु-शम्भु-खयम्भू हरि-हय-हिमधाम्नां दुर्यशोनाट्यबीजम् / कृततरुणिममाद्यन्मानिनीमान भङ्गः, प्रथयतु महती नस्तां समीहामनङ्गः // 7 // ___(पुनः सिंहासनमलङ्कृत्य सोत्कण्ठम् ) हिमकरकराकीर्णा रात्रिर्मधुः कलितोदयो, ___ गलितकुसुमैश्छन्ना भूमिः, सचापकरः स्मरः। मिथुनघटनादक्षं मित्रं, प्रिया प्रणयोन्मुखी, विधिरयमियान् सम्पद्येत प्रसीदति वेधसि // 8 // . (ततः प्रविशति लम्बस्तनी आत्रेयी च / ) सिद्धाधिनाथः-(आत्रेयीमवलोक्य सविस्मयम् ) चक्षुर्बाष्पविकज्जलं, करतलव्यासङ्गखण्डद्युति गण्डश्रीरधरः खरः प्रसृमरैः सूत्कारतारोर्मिभिः। आहारप्रतिरोधकीकस-शिरामात्रा च गात्रावनि दृष्टिं प्रीणयते तथापि सुदती लेखेव शीतत्विषः॥९॥ लम्बस्तनी-वत्से ! पणमेहि सिद्धनाहं / (आत्रेयी प्रणम्य सलजमधोमुखी भवति ) / सिद्धाधिनाथ:सौभाग्यद्रुममञ्जरि ! स्मरकरिक्रीडैकरेवावने ! .. लावण्यस्य तरङ्गिणि! त्रिभुवनप्रह्लादनाचन्द्रिके। वक्राम्भोजमुदस्य पश्य सुदति ! स्वर्भूर्भुवश्चक्षुषां साफल्यैकनिबन्धनं भगवतश्चेतोभुवो मन्दिरम् // 10 // ___ (आत्रेयी सव्रीडं तूष्णीमास्ते / ) सिद्धाधिनाथः- ( सोत्कण्ठम् ) वकं विलक्ष्म, सततोदयदर्पिते च नेत्रे, शठेन मुजता मदिरेक्षणायाः। धात्रा कलङ्क-विनिमीलनपांसुराणां, किं नाम नापकृतमिन्दु-सरोरुहाणाम् // 11 // (पुनरपवार्य ) लम्बस्तनि ! सर्वमपि कामकर्तव्यं शिक्षितस्त्वया वध्यः / 1) वत्से ! प्रणम सिद्धनाथम् / /

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98