Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 94
________________ कौमुदीमित्राणन्दरूपकम् / 77 आत्रेयी-(सात्त्विकभावानभिनीय सरभसम् ) एसो सो चेअ मे पई। (पुनः सरभसम् ) अजउत्त! चिरा दिट्ठो सि / लम्बस्तनी-वत्से ! निरूविदो तए भयवदो पहावो ?, ता इयाणिं उवविसिय देहि पुरिसोवहारं / सिद्धाधिनाथ:-( दक्षिणाक्षिस्फुरणमभिनीय सरभसम् ) भगवन् कुसुमचाप ! अमन्दं स्पन्दमानस्य दक्षिणस्यास्य चक्षुषः। फलं प्रयच्छ सम्पर्क तेन जीवितदायिना // 14 // (नेपथ्ये) एष प्रत्यासन्नः। सिद्धाधिनाथ:-किं जीवितदायिनः सम्पर्कः प्रत्यासन्नः / ___(नेपथ्ये ) एष प्रत्यासन्नः कालो निशीथस्य / तदारभ्यतां बलिकर्म / - (ततः प्रविशति यावकरसोपलिप्तसर्वाङ्गः करवीरदामालङ्कृतकण्ठपीठो निवसितकुसुम्भवसनः पुरुषः / ) सिद्धाधिनाथः - ( अपवार्य ) लम्बस्तनि ! तथा त्वयाऽयमुपलिप्तो यथा सर्वथा नोपलक्ष्यते / क्रूरकर्मणि पटीयसी खल्वसि / . (पुरुषः पञ्चबाणं प्रणम्य प्रदक्षिणीकृत्य च होमकुण्डसविधमुपविशति / ) ... लम्बस्तनी-वत्से ! करेहि भयवदो कुंडाणलस्स उवहारपुरिसस्स य पूयं / (आत्रेयी तथाकरोति / ) सिद्धाधिनाथः- महापुरुष ! सार्वकामिकमिदं शाश्वतिकमग्निकुण्डम् / भगवतः पञ्चबाणस्य पुरतो वनितया खयमस्मिन्नाहुतीकृतः स्वर्गसुन्दरीणां पतिर्भविष्यसि / तदिदानी क्लेशसहस्रपिच्छिलं पितृ-मातृ-पुत्र कलत्र-खापतेयप्रेमाणमपहाय परलोकमधितिष्ठासुः प्रशान्तेन चेतसा सर किमपि दैवतमिष्टम् / पुरुषः-( सविनयमञ्जलिं बवा) शीर्णनिःशेषसंसारव्यापारावेशवैशसम् / स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् // 15 // 1) एष स एव मम पतिः। आर्यपुत्र! चिरादु दृष्टोऽसि / 2) वत्से ! निरूपितस्त्वया भगवतः प्रभावः ?, तदिदानीमुपविश्य देहि पुरुषोपहारम् / 3) वत्से | कुरु भगवतः कुण्डानलस्योपहारपुरुषस्य च पूजाम् / /

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98