Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 95
________________ महाकविश्रीरामचन्द्रसूरिविरचितं सिद्धाधिनाथः-ऐहिकमपि किमपि शरणं प्रतिपद्यस्व / पुरुषः-ऐहिकः पुनरनङ्गदासो योनिसिद्धः शरणम् , यो मया वरुणद्वीपे खयमुपकृतः। सिद्धाधिनाथ:-कथं भवान् मित्राणन्दः / पुरुषः-मित्राणन्दोऽस्मि / सिद्धाधिनाथ:-(प्रणम्य ) परमेश्वर! प्रसीद प्रसीद, क्षमख कृतघ्नस्य क्रूरचेतसोऽनङ्गदासस्य तमेकमपराधम् / ( पञ्चभैरवं प्रति) स एष मे जीवितस्य स्वामी मित्राणन्दो यद्गवेषणाय यूयमभ्यर्थिताः / ( पञ्चभैरवः यावकोपलेपनमपनीय मित्राणन्दं सिंहासने समुपवेशयति / ) (आत्रेयी प्रत्यभिज्ञाय परिरभ्य च तारस्वरं प्रलपति / ) पुरुषः-(सबाष्पम् ) प्रिये ! कामिमां दुःस्थामवस्थामधिगतवत्यसि / सिद्धाधिनाथः-अपरमपि बहु कर्तव्यमस्ति / परमिदानी गृहाण स्त्रीरत्नमेकम् / अमुमेव कुण्डाग्निं प्रदक्षिणीकृत्य परिणय भगवतः पञ्चबाणस्य पुरतः / ( लम्बस्तनी प्रति) उपनय द्वितीयां तां तापसीम् / (प्रविश्य तापसी प्रणमति / ) आत्रेयी-(निभृतं विलोक्य ) कथमेसा सुमित्ता / पुरुषः-कथमेषा सुमित्रा मकरन्दपत्नी ? / (पुनः सिद्धं प्रति ) इयं मे मित्रस्य पत्नी सुमित्रा / सिद्धाधिनाथ:-( सलज्जम् ) केयमपराधपरम्परा ? / ( पुनः पुरुषं प्रति ) एते द्वे अपि मयैवापहृत्य विहितरूपान्तरे लम्बस्तनीवेश्मनि परस्परवार्तानभिज्ञे विहितनामान्तरे कालमियन्तं विधृते / (पुनर्विमृश्य ) पतिरस्याः क्व वर्तते / पुरुषः- यदाहं वेलन्धरनगरात् खनगरं प्रति प्रतिष्ठमानो युष्मद्विद्याधरैरपहृतस्तदा पतिरस्याः क्वचिदपि पलाय्य गतवान् / (प्रविश्य ) प्रतीहारः-एकः पथिको देवपादान् द्रष्टुमभिलषति / [सिद्धाधिनाथः-शीघ्र प्रवेशय / (प्रतीहारो निष्क्रान्तः)] (प्रविश्य पथिकः प्रणमति।) 1 अवलोक्य का 1) कथमेषा सुमित्रा।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98