Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 93
________________ 76 महाकविश्रीरामचन्द्रसूरिविरचितं लम्बस्तनी-अंध इं?। / सिद्धाधिनाथः-(आत्रेयी प्रति ) भद्रे! स्वयं सनिहिते भगवति पञ्चबाणे कोऽयं प्रियसम्पर्कनिमित्तं क्लेशाभ्युपगमः ? / अभ्युपगच्छ स्वच्छेन चेतसा सत्यावपातस्य भगवतः पञ्चबाणस्य पुरुषोपहारम् , येनायं प्रसद्य प्रयच्छति ते प्रियपतिम् / अपि च यस्यैवायं भगवाननङ्गः स्वयं स्रजमुपनेष्यते स एव ते पतिः। लम्बस्तनी-वत्से ! भोदु एदं, पिच्छ भयवदो पहावं / सिद्धाधिनाथ:-(कामाभितापमभिनीय ) अस्यां मृगीहशि दृशोरमृतच्छटायां, देवः स्मरोऽपि नियतं वितताभिलाषः। एतत्समागममहोत्सवबद्धतृष्णमाहन्ति मामपरथा कथमेष बाणैः 1 // 12 // . . (पुनरात्रेयी प्रति) नतशतमखकामिनीप्रसून च्युतमकरन्दकरम्बितांहिपद्माम् / द्रुहिण-हरि-हरोपजप्यनाम्नः, प्रणम मृगाक्षि! मनोभवस्य मूर्तिम् // 13 // आत्रेयी-( उत्थाय प्रणम्य च सविनयम् ) भैयवं कुसुमबाण ! पसीअ उवणेहि पिअं जणं, अहं ते पुरिसेण बलिं करिस्सं / / (नेपथ्ये) भद्रे ! स्वयं सन्निहिते भर्तरि किं भर्तारमर्थयसे ? / आत्रेयी-कथमेस सयं भयवं पंचवाणो जंपेदि ? / (पुनर्विलोक्य ) कथं सयं सयंवरमालं सिद्धणाहस्स कंठे निक्खिवेदि / __ (सर्वे सविस्मयमवलोकयन्ति / ) सिद्धाधिनाथः-(सविस्मयमात्मगतम् ) कथमिदं तदेव त्रिलोकीकामिनीजनमनाक्षोभैकहेतु!वेयकमुपनीतं भगवता पञ्चबाणेन ? / ( पुनरपवार्य ) लम्बस्तनि ! किमि-. दम् ?, कैतवमपि सत्यतामगात् / लम्बस्तनी-अहं पि विम्हिदा चिट्ठामि / 1) अथ किम् / 2) वत्से! भवत्वेतत्, पश्य भगवतः प्रभावम् / 3) भगवन् कुसुमबाण ! प्रसद्योपनय प्रियं जनम् / अहं ते पुरुषेण बलिं करिष्ये। 4) कथमेष स्वयं भगवान् पश्चबाणः जल्पति ? / कथं स्वयं वयंवरमालां सिद्धनाथस्य कण्ठे निक्षिपति / / 5) अहमपि विस्मिता तिष्ठामि /

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98