Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 91
________________ महाकविश्रीरामचन्द्रसूरिविरचित पुरुषोपसेवाऽऽजीविकार्थम् न मन्मथव्यथाव्यपोहार्थम् / कामयितरि जनयितरि भ्रातरि च पुरुषमात्रपरमन्तःकरणम् / तदलममुना वाग्विलासेन / सर्वथा कैतवं निन्द्यं प्रवदन्ति विपश्चितः। : केवलं न विना तेन दुःसाधं वस्तु सिध्यति // 4 // ततो व्रज त्वं कामायतनम् / प्रवर्तय सर्ववनितासु विधीयमानं पूर्वमत्रितमेव कैतवप्रयोगम् / वयमप्येते प्रदोषानन्तरमागता एव / (लम्बस्तनी निष्क्रान्ता / ) .. (प्रविश्य) पुरुषः-देव ! वध्ययोर्मध्यादेकः प्राप्तः / सिद्धाधिनाथ:-(सरभसम् ) घातकस्तदितरो वा / .. पुरुषः-तदितरः। सिद्धाधिनाथः-(पञ्चभैरवं प्रति) स एष मत्रोपचारकर्मणः प्रभावः / (पुनः पुरुषं प्रति) गत्वा समादिश लम्बस्तनीम्, यथा-पश्चबाणस्यापि व्यापारो वध्यहस्तेनैव कार्यः। ( पुरुषो निष्क्रान्तः / ) (नेपथ्ये) वसुधातलसन्तपनस्तपनश्चरमं प्रयात्यचलमेषः। प्रियजनसङ्घटनकरं तिमिरं प्रविलुठति काष्ठासु // 5 // पञ्चभैरव:- देव ! मात्रिकमत्रानुरूपं प्रदोषं मागधः पठितवान् / सिद्धाधिनाथः- अधितिष्ठामस्तर्हि कामायतनम् / (सर्वे परिक्रामन्ति / ) पञ्चभैरवः-देव! स्फूर्जद्यावकपङ्कसङ्कमलसन्मध्यं जपासोदरै •ष्यैः क्लुप्तपताकमाम्रकिसलैस्ताम्रीभवत्तोरणम् / कौसुम्भैर्घटितावचूलमभितो मत्तालिभिर्दामभिः, सिन्दूरारुणिताङ्गणं गृहमिदं देवस्य चेतोभुवः // 6 // (प्रविश्य ) ब्रह्मलयः-देव ! स एष विहितविशेषपूजो भगवाननङ्गः / इदं च सिंहासनमास्यतां देवेन / सिद्धाधिनाथ:-(प्रणम्य)

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98