Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 90
________________ कौमुदीमित्राणन्दरूपकम् / सिद्धाधिनाथः-(तथाकृत्वा सविस्मयम् ) कथं क्षणादेव सर्वथाऽप्यलक्ष्यः प्रहारव्रणः समजनि। (पुनः सविमर्शम् ) कथमिदं तदेवाऽऽस्माकीनमौषधम् ? / (क्षेमङ्करी प्रति ) सुमुखि ! स त्वदीयो मात्रिकः किमपरमपि किमपि जानाति / / क्षेमकरी-अवरं पि पियसंपओगं जाणादि / सिद्धाधिनाथः-कोऽप्यस्माकं व्यापादयितुं प्रियः, कोऽपि पूजयितुं, तदुभयस्थापि संयोगमाधातुमूर्जखलः / क्षेमङ्करी-अंध इं?। सिद्धाधिनाथः-(सौत्सुक्यम् ) समादिश कुन्दलताम् / यथा-निकषा कामायतनं खयं सन्निहिता विधापय मात्रिकेण प्रियजनसङ्घटनार्थ मत्रोपचारम् / (क्षेमकरी निष्क्रान्ता / ) (प्रविश्य कटितटं नर्तयन्ती लम्बस्तनी प्रणमति / ) सिद्धाधिनाथ:-( ससंरम्भम् ) लम्बस्तनि! इदमासनमास्यताम् / (पुनः सौत्सुक्यम् ) अस्मन्मनोरथानुरूपं किमप्याचरत्यात्रेयी ? / लम्बस्तनी-( सोद्वेगम् ) नै किं पि।। सिद्धाधिनाथ:-हा हताः स्मः / (पुनः सविषादम् ) लम्बस्तनि ! स एष ग्रैवेयकप्रवासप्रसादो यदस्माकमपि दौर्भाग्यम् / ( पुनः सोपहासम् ) सूत्रधारी खलु भवती विकटकपटनाटकघटनासु, ततस्त्वमपि भग्नाऽसि / ___ लम्बस्तनी-किमहं करेमि ?, सा खु अत्तेई न आहरदि, न जंपेदि, णवरं तवोविहाणकदनिच्छया रोअंती चिट्ठदि / सिद्धाधिनाथः- निजस्य पत्युः प्रेम्णा पत्यन्तरं नाभिलपति ?, उताहो! मन्मथाभावेन / लम्बस्तनी-(साक्षेपम् ) सौ किमत्थि इत्थिआ ?, जीइ वम्महो न भोदि / सिद्धाधिनाथ:-सन्ति ताः कियन्त्योऽप्यस्मिन् जगति स्त्रियो यासां मन्मथसहस्रमपि न मनो व्यथयति / स्त्रीसम्पर्क इव पुरुषसम्पर्कोऽपि न विकाराय / अङ्गसंस्कारो लोकव्यवहारो न कामोद्वारः। जठरपिठरीभरणमात्रावधयः सर्वेऽप्यभिलाषाः 1) अपरमपि प्रियसम्प्रयोगं जानाति / 2) अथ किम् ? / ३)न किमपि। 4) किमहं करोमि ? सा खलु आत्रेयी नाऽऽहरति, न जल्पति, नवरं तपोविधानकृतनिश्चया रुदती तिष्ठति। 5) सा किमस्ति स्त्री ?, यस्या मन्मथो न भवति / कौ०१०

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98