Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 88
________________ [ // अथ दशमोऽङ्कः // ] (ततः प्रविशति पञ्चभैरवः / ) पञ्चभैरवः-(उच्चैःस्वरम् ) हंहो विद्याधराः! स्वयं रत्नकूटाधिपतिर्वः समादिशति-द्रुतमाकारयत दक्षिणाश्रमवासिनी लम्बस्तनीम्, तौ च वध्यौ कुतोऽपि गवेषयित्वा समानयत, पुरुषोत्तमं च तं जीवितदायिनं सङ्घटयत / (नेपथ्ये) यदादिशति सिद्धपरमेश्वरस्तदचिरादेव सम्पादयामि / पञ्चभैरवः-तर्हि गत्वा विज्ञपयामि सिद्धाधिपतये / (इति परिक्रामति / विलोक्य ) कथमियमुत्तराश्रमवासिन्याः कुन्दलतायास्तापसी क्षेमङ्करी। (प्रविश्य) क्षेमङ्करी-अय्य पंचभेरव ! सिद्धाहिवदिणो दंसणमहिलसामि। पञ्चभैरवः- भद्रे ! प्रहारवेदनाभिरतितरामस्वस्थशरीरः साम्प्रतं सिद्धपरमेश्वरो वक्तुमपि न प्रभविष्णुः, ततो दृष्ट्वा किं करिष्यसि / / क्षेमङ्करी-पहारवेअणोपसमणत्थं चेय दंसणमभिलसामि / पञ्चभैरवः- सत्वरमागच्छ, पश्य तर्हि कामकाननकदलीगृहमधिशयानं सिद्धाधिनाथम् / (ततः प्रविशति यथानिर्दिष्टः सिद्धाधिनाथः सुघण्ट नन्दिघोषप्रभृतिकश्च परिवारः।) सिद्धाधिनाथ:-(प्रहारवेदनामभिनीय ) अहह / / सुघण्ट:-देव ! किं प्रहारव्रणमियन्तं कालमवतिष्ठते / सिद्धाधिनाथः -कुपितदेवताप्रहारोऽयं न संरोहिणीमौषधीं विना प्रशाम्यति / नन्दिघोषः-किमसाध्या संरोहिणी सिद्धपरमेश्वरस्य / (सिद्धाधिनाथः दीर्घ निःश्वस्य तूष्णीमास्ते / ) पञ्चभैरवः-देव ! क्षेमङ्करी प्रणमति / सिद्धाधिनाथ:-क्षेमङ्करि ! निष्प्रत्यूहव्रतानुष्ठाना कुशलवती कुन्दलता ? / 1) आर्य पञ्चभैरव ! सिद्धाधिपतेर्दर्शनमभिलषामि / 2) प्रहारवेदनोपशमनार्थमेव दर्शनमभिलषामि /

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98