Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 86
________________ कौमुदीमित्राणन्दरूपकम् / मकरन्दः-(स्वगतम् ) शूलवेदनापहारेण मयि पक्षपात्यपि कुमारस्तेनामुनोपलिङ्गान्तरेण प्रतिपक्षतां यास्यति / विरलविपदां कथञ्चिद् विपदो हर्तुं समीहते लोकः। प्रतिपदनव विपदा पुनरुपैति माताऽपि निर्वेदम् // 10 // तदतः परं कृतमुपायान्तरविमर्शनेन / यद् भाव्यं तद् भवतु / युवराजः-(प्रतीहारं प्रति ) उपनय दुरात्मानमेनं श्वपाकाय / (प्रतीहारो मकरन्दं केशैराकृष्य श्वपाकायोपनयति / ) (नेपथ्ये) अलमलं क्रूरेण कर्मणा। युवराजः-( सक्रोधम् ) अरे! कोऽयं कृतान्तवदनं स्पृहयालुरस्मदाज्ञां प्रतिरुणद्धि / प्रतीहारः-देव ! व्याघ्रमुखीपतिर्वज्रवर्मा युष्मदाज्ञां प्रतिरुणद्धि / युवराजः- (सदर्पम् ) अस्मदाज्ञा प्रतिरोर्बु शक्तिरस्ति पदातिपांशोर्वज्रवर्मणः / (पुनः श्वपाकं प्रति ) आरोपय शुलमेतं दुरात्मानम् / (श्वपाको मकरन्दमुत्क्षिपति / ) ___(नेपथ्ये) अहो ! अब्रह्मण्यमब्रह्मण्यम् , अहह ! पापकारित्वम् / युवराजः-(साक्षेपम् ) अरे! कोऽयमस्मान् भूयो भूयस्तिरस्करोति / _ (प्रविश्य वज्रवर्मणा सह ) मित्राणन्दः-कुमार ! कोऽयं विचारव्यामोहः / युवराजः-(प्रत्यभिज्ञाय) कथमयमस्मत्प्राणस्वामी मित्राणन्दः / (पुनः स्वसिंहासने समुपवेश्य ) आर्य ! किं तवाऽयं मकरन्दः / मित्राणन्दः-ममाऽयं भ्राता मकरन्दः। युवराजः-अरे बर्बर ! किमिदम् / बर्बर:-(सकम्पम् ) नरदत्तेण एदं कवडं कालाविदे हगे। वज्रवर्मा-ममायं मकरन्दो जामाता / युवराजः- (सपश्चात्तापम् ) 1) नरदत्तेन एतत् कपट कारितोऽहम् /

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98