Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 85
________________ 68 महाकविश्रीरामचन्द्रसूरिविरचितं युवराजः-(सरभसम् ) केरलिके ! त्वरिततरमानन्दस्य निदानं विज्ञपय / चेटी-रयणस्स पभावेण भट्टिणी ववगयशूलवेअणा संजादा / युवराज:-(सक्रोधम् ) अमात्य ! कैतवप्रयोगैर्देशान्तरिणां धनमपहत्यास्माकमकीर्तिमुत्पादयतो नरदत्तस्य को दण्डः / चारायणः-( सकम्पम् ) यं देवः समादिशति / युवराजः- तर्हि श्वपाकमाकार्य सकुटुम्बमेनं नरदत्तमसाकं पश्यतां शूलमारोपय / __ ( नरदत्तः कम्पते।) चारायणः - ( उच्चैःस्वरम् ) भो अस्मत्परिजनाः ! सशूलं श्वपाकमाकारयत / (प्रविश्य ) प्रतीहारः-देव ! सर्वदेशाचार-भाषा-वेषकुशलो बर्बरकूलवासी वणिज्यकारको द्वारि वर्त्तते / (प्रविश्य ) श्वपाकः-अमच ! एशे चिष्टामि / चारायणः- अरे पिङ्गलक ! सकुटुम्बमेनं नरदत्तं शूलमारोपय / युवराजः-(प्रतीहारं प्रति ) प्रवेशय वणिज्यकारकम् / ... . (प्रविश्य बर्बरो दूरस्थः प्रणमति / ) युवराजः- वणिज्यकारक ! केन प्रयोजनेन वेलन्धरमवतीर्णोऽसि / बर्बरः- भैट्टा! पाणाहिंतो पि पियदले एगे मे भाया, शे लूशिय गिहादोनीशलिदे। युवराजः-ततः किम् / / बर्बरः-'शे दाणिं वेलंधरे पविष्टे चिष्टदि। युवराजः- ( मकरन्दमुद्दिश्य ) एकस्तावदयं वैदेशिको वेलन्धरे प्रविष्टोऽस्ति / बर्बरः-हो भाय! चिला दिष्टो सि / (इत्यभिदधानो मकरन्दं परिरभ्य तारस्वरं प्रलपति) युवराजः-( ससम्भ्रमम् ) कथमयं मकरन्दो म्लेच्छजातिः ? / दुरात्मनाऽमुना म्लेच्छेन नरदत्तस्य वेश्मनि भोजन-शयनाभ्यां वर्णसङ्करः कृतः। 1) रत्नस्य प्रभावेन भट्टिनी व्यपगतशूलवेदना सजाता। 2) अमात्य ! एष तिष्ठामि। 3) भर्तः। प्राणेभ्योऽपि प्रियतरः एको मे भ्राता, स रुष्वा गृहान्निःसृतः / 4) स इदानीं वेलन्धरे प्रविष्टः तिष्ठति / 5) हा भ्रातः 1 चिराद् दृष्टोऽसि /

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98