Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 83
________________ महाकविश्रीरामचन्द्रसूरिविरचितं युवराजः-(तथाकृत्वा मध्यमवलोक्य च सविस्मयम् ) कथमुभयतोऽपि सम्पुटेषु मकरन्दाभिधानम् / (पुनः साक्षेपममात्यं प्रति) क्रमागतस्य नरदत्तस्यायमीदृशो युष्माकं सत्यप्रत्ययः / नरदत्तः-( सविनयम् ) देव ! विज्ञपनीयमस्ति / युवराजः-(साक्षेपम् ) अतः परमपि किमपि विज्ञपनीयमस्ति ? / भवतु, विज्ञपय / नरदत्तः-देव ! बाल्ये हि मे पिता विपन्नः / इदानीमहमनुजश्चायं द्वावेव कुटुम्बे पुरुषो। युवराज:-ततः किम् ? / नरदत्तः-अहमपि निरपत्यः, भ्रातैव मे अपत्यम् / तदस्यैव नाम्ना क्रेयं च वस्तु, अयं च मकरन्दाभिधानः / अत्र चार्थेऽमात्यः पौरलोकश्च प्रमाणम् / / चारायणः-देव ! अयमुपायनभाजनवाही भ्राताऽस्य मकरन्दाभिधानः। युवराजः-कोऽत्र भोः ! / (प्रविश्य ) प्रतीहारः-आदिशतु देवः। युवराजः-कियतोऽपि वणिजः समाह्वय / (प्रतीहारो निष्क्रान्तः ) (प्रविश्य कृतोष्णीषाः पञ्चषा वणिजः प्रणमन्ति / ) युवराजः-तातस्य विक्रमबाहोराज्ञा भवतां यदि पक्षपातेन वदत / ततः कथयत को नरदत्तस्य भ्राता ? किमभिधानश्च / वणिजः-(सभयम् ) देव ! नरदत्तस्यायं भ्राता मकरन्दाभिधानः / ( युवराजः साटोपं मकरन्दमवलोकयति / ) मकरन्दः-(संदुःखमात्मगतम् ) प्रत्यहं नव्यनव्याभिर्भवन्तीभिर्विपत्तिभिः। आस्तां नाम परस्तावदात्माऽपि मम भनवान् // 8 // (प्रकाशम् ) देव! अपरमप्यभिज्ञानमस्ति-इला मे गोत्रदेवता, तदभिधानेनापरमिलादत्त इत्यपि नाम / ततः कियन्त्यपि सम्पुटानीलादत्तनामाङ्कितानि, ततस्तान्यपि विलोकयतु देवः। युवराजः-(तथाकृत्वा ) कथमेतानि इलादत्तनामाङ्कितानि / (पुनः सरोषं नरदत्तं प्रति ) अतः परमपि विज्ञप्यमवशिष्यते किमपि ? /

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98