Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 87
________________ महाकविश्रीरामचन्द्रसूरिविरचितं अमर्ष-मात्सर्य-विमोह-कैतवै रसून् हरन्तो नयशालिनामपि / शुभेषु वृत्तिं दधतोऽपि केषुचित् पतन्त्यगाधे तमसि क्षितीश्वराः // 11 // (पुनरमात्यं प्रति) आरोपय सबबरं नरदत्तं शूलम् / इह समानय कृतस्नानं मकरन्दम् / भवत्वस्माकं दुर्नयस्य प्रायश्चित्तम् / वज्रवर्मा-मित्राणन्दसम्पर्कपर्वणि न समुचितः प्राणिवधः। मित्राणन्दः-कुमार ! सर्वस्याप्यपराधस्यासदागमनमेव दण्डः। युवराजः-(सविनयम् ) एतद् दिनं सुदिनमेष विशेषकश्च द्वीपः क्षितेः पुरमिदं च पुरां पताकम् / यस्मिन् पवित्रमनसो यशसो निशान्तं युष्मादृशाः पथि भवन्ति दृशां शरण्याः // 12 // ततः कथयत केयमनभ्रा सुधावृष्टिः / वज्रवर्मा-सर्वमहं रजन्यां विज्ञपयिष्यामि / इदानीं पुनर्मध्याह्वसन्ध्यामाधातुं प्रयातु देवः / मित्राणन्दोऽप्यध्वश्रममपनयताम् / चारायणः- देव ! यदभिधत्ते वज्रवर्मा तदस्तु / ___ (इति निष्क्रान्ताः सर्वे / ) // नवमोऽङ्कः समाप्तः॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98