Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 84
________________ 67 कौमुदीमित्राणन्दरूपकम् / नरदत्तः-(सावष्टम्भम् ) अवशिष्यते / युवराजः-(विहस्य ) त्वरिततरं विज्ञपय / नरदत्तः-देव ! इलादत्ताभिधानो मे भागिनेयः, ततः सुवर्णद्वीपस्थितेन मया सोमपरिवेषपर्वणि सम्पुटानां शतमष्टोत्तरं तन्नामाङ्कितं कृतम् / अत्राप्यर्थे पौरलोकः प्रमाणम् / (युवराजो वणिजां मुखान्यवलोकयति / ) वणिज:- अस्तीलादत्ताभिधानो नरदत्तभागिनेयः। युवराजः-( साक्षेपं मकरन्दं प्रति ) अरे दाम्भिक ! कूटप्रयोगैरस्माकं वणिजां च दुष्कीर्तिमुत्पादयसि / मकरन्दः-( सावष्टम्भम् ) उपायनीकृतरत्नानां प्रभावातिशयं नरदत्तमापृच्छतु देवः। युवराजः-नरदत्त ! कस्य रत्नस्य का प्रभावातिशयः / / नरदत्तः-( सक्षोभम् ) देव ! सर्वाण्यपि रत्नानि सप्रभावाणि, परं न कदाचिदपि निरूपितप्रत्ययानि / युवराज:-(नरदत्तं प्रति) यदि त्वदीयानि रत्नानि तदा निस्सन्देहमभिदधीथाः। मकरन्दः-देव ! निःसन्देहमभिहिते भवन्ति मदीयानि रत्नानि / युवराजः-अवश्यं भवन्ति / मकरन्दः-देव ! रत्नमिदं स्पर्शमात्रेण शूलमपनयति / यदि चायमों विसंवदति तदा शिरश्छेदेन दण्डः / (प्रविश्य सम्भ्रान्तः) कञ्चकी देवी कण्ठगतप्राणा शूलवेदनयाऽधुना। अतः परं विधेयं तु युवराजोऽवगच्छति // 9 // युवराजः-कञ्चुकिन् ! रत्नमिदमुपनय देव्याः, येन समूलं शूलं प्रणश्यति / (कञ्चकी रत्नमादाय निष्क्रान्तः / ) ( नरदत्तः सभयमपवार्य उपायनभाजनवाहिनः कर्णे एवमेव / ) ( उपायनभाजनवाही निष्क्रान्तः / ) (प्रविश्य) चेटी-भेट्टा! दिहिया दिहिया / 1) भर्तः / दिष्टया दिष्टया। 1 भामेयः ख।Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98