Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 82
________________ - कौमुदीमित्राणन्दरूपकम् / खलु कृत्वा नातीतव्यसनशोचनम् / आजन्म यानि जायन्ते व्यसनानि सहस्रशः। स्मयन्ते तानि चेन्नित्यं कोऽवकाशस्तदा मुदाम् // 5 // भवतु, प्रणमामि। युवराजः-अये वाणिज्यकारक ! किंनिदानोऽयं नरदत्तेन सह विवादः ? / मकरन्दः -( सविनयम् ) देव! सुवर्णद्वीपात् प्रतिनिवृत्तस्य ममायं पटच्चरवृत्तिर्नरदत्तः सङ्घटितः / क्रय-विक्रयकौशलानुरञ्जितेन च मया स्वसार्थे प्रधानः कृतः / अयं चेदानीं 'मदीयोऽयं सार्थः, न ते किमपि लभ्यमस्ति' इति व्याहरति / ( युवराजः स्मित्वा चारायणमुखमवलोकयति / ) चारायणः-देव ! क्रमागतोऽयं नरदत्तः, तदस्य सत्येषु नः सम्प्रति प्रतिपत्तिरस्ति, देशान्तरिणः पुनरस्य स्वरूपं नावगच्छामः / युवराजः-अमात्य! समूलकाषं कषतां द्विषन्महीं, शिशुन् पितृभ्यां हरतां च निर्दयम् / अपक्षपातेन यदर्थनिर्णय स्तदेव धर्मः किमपि क्षमाभुजाम् // 6 // चारायणः-ततः किम् / युवराजः... समानशील-सन्तान-युक्ति व्यापारयोर्द्वयोः। विना विशेषचिह्वेन युक्तो नैकत्र निर्णयः // 7 // मकरन्दः-देव ! विशेषचिह्नमप्यस्ति / युवराजः-कोऽवकाशस्तर्हि विवादस्य / मकरन्दः-देव ! सुवर्णेष्टिकासम्पुटानि यानि तानि सर्वाण्यपि मन्नामाङ्कितानि / युवराजः-देवशर्मन् ! ससुवर्णसम्पुटं सुवर्णकारमाकारय / / . ( देवशर्मा निष्क्रान्तः / ) ( प्रविश्य सुवर्णकारः सम्पुटान्युपनयति / ) युवराजः-(सर्वतोऽवलोक्य ) कथं न कुत्राप्यभिधानम् ? / (पुनः साक्षेपम् ) अरे ! कोऽयमसत्यालापः। मकरन्दः-द्वेधा विधाप्य सम्पुटानि मध्यमवलोकयतु देवः / को..

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98