Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 80
________________ [ // अथ नवमोऽङ्कः // ] (ततः प्रविशति युवराजो लक्ष्मीपतिरमात्यश्चारायणश्च / ) युवराजः-(ससम्भ्रमम् ) कोज भोः ! कञ्चकिषु ? / (प्रविश्य ) कचकी-एषोऽस्मि / युवराजः- समादिश अगदङ्कारमात्रेयम् / यथा-देव्या अनङ्गसेनाया वपुषि सावधानेन भाव्यम् / (कञ्चकी निष्क्रान्तः / ) (नेपथ्ये) सरसिजवनमपबन्धं दिशो वितमसो दृशः प्रकटभावाः। अवतरति नभोमित्रे वसुधायां कस्य नाऽऽनन्दः ? // 1 // चारायणः- देव ! शुभोदकं मित्रोदयं मागधः पठितवान् / .. युवराजः- अमात्य ! मित्राणन्दशब्दयोराकर्णनादुद्वेजिताः स्मः। ..... पूर्जम्भारिपुरोपमानममरस्तम्बेरमस्पर्धिनो नागाः, सूर्यतुरङ्गनिर्जयजवैर्विभ्राजिनो वाजिनः / राज्यश्रीककुदं तदेतदखिलं यन्मन्त्रलीलायितं, .. तस्यांहिद्वितयीं शिरस्यवहतो धिग् नः कृतघ्नानिमान् // 2 // (पुनर्विमृश्य) अमात्य ! वचस्विनामवाच्यं श्रद्धालूनामश्रद्धेयं महीयसामश्रोतव्यमैहिका-ऽऽमुष्मिकापायप्रत्यवमर्शवन्ध्यमतिना कामरतिना पश्य कीदृशमनुष्ठितम् / चारायणः-देव ! किमनुष्ठितवानमात्यः कामरतिः / युवराजः-अस्माकं जीवितैकनिदानं मित्राणन्दाभिधानं तत्पनीमभिलाषुकः कामरतिः 'खनगरं प्रति प्रस्थापितो मित्राणन्दः' इति प्रवादं विधाय विजयवर्मणे व्यापादयितुमुपनीतवान् / चारायणः-देव! जनुषान्धा न पश्यन्ति भावान् केवलमैहिकान् / ऐहिका-ऽऽमुष्मिकान् कामकामलान्धाः पुनर्जनाः // 3 // युवराजः- ततः परं च रत्नाकरभङ्गेन तस्य किमपि संवृत्तमिति न जानीमः, तत्पत्नी पुनः कौमुदी व्याघ्रमुख्यां तिष्ठतीत्यस्ति किंवदन्ती /

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98