Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 78
________________ कौमुदीमित्राणन्दरूपकम् / एतानि होमविधये ज्वलितानलानि कुण्डानि, सैष वनसैरिभपुच्छदीपः। एतद् वपुश्च पुरुषस्य सलक्षणस्य निर्जीवमेष पुनरन-वसोपहारः॥१२॥ कापालिकः-पुरुषस्य वपुः क्व वर्तते / (प्रविश्य बटुः पुरुषस्य वपुर्मण्डलमध्ये विमुच्य निष्क्रान्तः / ) कापालिक:-( पुरुषवपुषः कुण्डानां च पूजां विधाय मकरन्दं प्रति) मन्त्रापविद्धं यद्येतद् वपुर्धाम्यति मण्डले। तथापि न त्वया स्थानात् कम्पनीयमितस्ततः // 13 // मकरन्दा-आवश्यकमेतत् / कापालिक:-मायामय ! उपनय पुरुषवपुषः करवालम् / ... (मायामयस्तथाकरोति / ) . (कापालिकः वसारसोपलिप्तान्यन्त्रखण्डानि जुहोति / ) मकरन्दः-(स्वगतम् ) अपि नाम कोऽप्यपायः सम्भवेत् , तदहं परमेष्टिनामपवित्रं मन्त्रं स्मरामि / ( पुनः साशङ्कम् ) कथं प्रहसति प्रचलति च पुरुषः / कापालिक:-( मकरन्दं प्रति) समय इदानीं शबोत्थानस्य, ततस्त्वया सावधानेन भवितव्यम् / (पुरुषस्य वपुः करवालमादाय मकरन्दाभिमुखं कतिचित् ___ पदानि दत्त्वा पुनर्मण्डलमध्ये निपतति / ) कापालिक:-( ससम्भ्रमम् ) किमपि दैवतं स्मरन्नसि / मकरन्दः-न किमपि स्मरामि / ( कापालिकः सविशेषमन्त्रखण्डानि जुहोति / ) (पुनः पुरुष उत्थाय तथैव निपतति / ) कापालिक:-( साक्षेपम् ) महाभाग! किमिति कमपि दैवतं स्मृत्वा होमभङ्गं करोषि / मकरन्दः-सर्वथा नाहं किमपि स्मरामि / ( कापालिकः पुनः साक्षेपं मन्त्रमुच्चारयन्नन्त्रखण्डानि जुहोति / ) (पुनः पुरुषवपुर्मकरन्दाभिमुखं गत्वा प्रतिनिवृत्त्य च करवालेन कापालिकमभिहन्ति / ) ( कापालिक आक्रन्दमाधाय तिरोधत्ते / )Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98