Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 76
________________ कौमुदीमित्राणन्दरूपकम् / (प्रकाशं मकरन्दं प्रति) त्वां निध्याय निबद्धवासववपुःस्पर्द्ध, स्फुरद्यौवने __ चैते प्रीति-रती इव प्रियतमे देवस्य चेतोभुवः। स्मृत्वा तस्य कठोरघोरमनसः कृत्यं च पापीयस श्वेतो नः प्रतिकम्पते विघटते सन्त्रस्यति भ्रश्यति // 9 // मकरन्दः-भगवन् ! सर्व विततमावेदय / (प्रविश्य सम्भ्रान्तः पुरुषो युवतिश्च / ) पुरुषः-(सदैन्यम् ) भगवन् ! परित्रायस्व परित्रायस्व / युवतिः-भयवं! रक्खेहि मं अणजविजाहरेण अवहरिजंतिं / कापालिकः-मा भैष्टां मा भैष्टाम् , अस्मदभ्यर्णमधिवसतोर्युवयोर्विरश्चिरपि न प्रभविष्णुः, किमङ्ग! पुनः खेचरखेटः / पुरुषः-(सकरुणम् ) भगवन् ! देहि मे प्राणभिक्षाम् / मकरन्दः-( सभयम् ) भगवन् ! कुतोऽयमनयोरियान् प्रतिभयाडम्बरः / कापालिकः-अस्ति नामैको योनिसिद्धः, स च "पक्ष्मलाक्षीलक्षमभिरमेत विद्याधरपदकामः" इत्यलीकां पापीयसीं वैदिकीं वाचमाकर्ण्य पृथिव्यास्तरुणं स्त्रैणमपहरति / परदारव्रतं चानुरुन्धानो भतारं व्यापाद्य सभर्तृकामभतेकां करोति / इदं च नगरं तेन दुरात्मना विगतमानुषप्रचारं कृतम् / तवापि वनितानिमित्तं व्यसनं सम्भावयामि / मकरन्दः- भगवन् ! स पुनः किमर्थमिदमनार्य कर्म समाचरति ? / कापालिकः-महाभाग! परस्य शर्मणः सत्यं प्रत्यूहो हरिणीदृशः। भवेऽपि तद् यदि कापि तदा ता एव हेतवः // 10 // अपि च ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः / भूर्भुवःस्वर्विभूतीनां सौभाग्यं यत्प्रसादतः // 11 // पुरुषः-समादिशन्तु मे कृत्यं योगीन्द्रपादाः। कापालिक:- सप्तमं दिनमिदं विद्याधराधमाकर्षणविधिमनुतिष्ठतामस्माकम् , तदियं ते पत्नी पुरोवर्तिनीनामेकचक्राकामिनीनां मध्ये यामद्वयमस्मत्पातालभवनमधिवसतु / एकाकिनः पुनः पुरुषस्य न समुचितः परदाराणां मध्येऽधिवासः, ततस्त्वं कियन्तमपि कालं क्वचिदपि गत्वाऽतिवाहय / 1 भगवन् ! रक्ष मामनार्यविद्याधरेणापह्रियमाणाम् / 1 पापान्धसः ख। 2 प्रविकम्पते ख। 3 मध्ये निवासः क।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98