Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ कौमुदीमित्राणन्दरूपकम् / * मकरन्दः-मध्यमपि विलोकयिष्यामः / (सर्वे परिकामन्ति / ) मकरन्दः -(सभयम् ) स्फुरद् वामं चक्षुः, प्रतिमुहुरिदं सैष भुजगः स्फटाटोपी शुष्के विटपिनि विमुञ्चन् विषलवान् / खरश्चायं भूनाभिमुखमतिरुष्टः कटु रटन्, पुरस्तात् पश्चाद्वा विपदमतिगुर्वी दिशति नः // 3 // सुमित्रा-अजउत्त ! फलविसंवाईणं कित्तियाणं सउणाणं कन्नं देसि / मकरन्दः-प्रिये! .. विसंवदतु वा मा वा शकुनं फलकर्मणि / तथापि प्रथमं चेतो वैमनस्यमुपाश्नुते // 4 // . . . आभ्यन्तरं च शकुनं चेत एव, तदेहि देवतायतनमेतदधिरुह्य देवतां नमस्कुर्मः। उपनता अपि हि विपदः प्रतिरुध्यन्ते देवतादर्शनेन / (सर्वे देवतायतनमधिरोहन्ति / ) मकरन्दः- कथमयं सकलदेवताधिचक्रवर्ती नाभिसूनुश्चैत्याभ्यन्तरमलङ्करोति / (सर्वे प्रणमन्ति / ) मकरन्दः-(अञ्जलिमाधाय ) / भद्राम्भोजमृणालिनी, त्रिभुवनावद्यच्छिदाजाह्नवी, . लक्ष्मीयत्रणशृङ्खला, गुणकलावल्लीसुधासारणिः। - संसारार्णवनौर्विपत्तिलतिकानिस्त्रिंशयष्टिश्चिरं, दृष्टि भिसुतस्य नः प्रथयतु श्रेयांसि तेजांसि च // 5 // (पुनर्विचिन्त्य ) आर्ये कौमुदि ! देवतायतनजगत्यां स्थित्वा विलोकयामः कस्यापि मानुषस्य सञ्चारम् / (विलोक्य ) कथमयमितस्ततो दत्तदृष्टिर्बटुः पर्यटनवलोक्यते / (प्रविश्य) बटुः-खस्ति यजमानेभ्यः। मकरन्दः-बटो! स्पष्टं प्रकटय त्रास-विस्मयकारिणः पुटभेदनस्यास्य स्वरूपमिदानीमेव देशान्तरादुपेयुषामस्माकम् / बटुः-महाभाग ! महानयं कथाप्रबन्धः / तमेवं योगीन्द्र एव युष्मभ्यमावेदयितुमलम्भूष्णुः / तदेत यूयम् / पश्यत देवतायतनोपवननिबद्धवासं योगीन्द्रम् / 1 आर्यपुत्र / फलविसंवादिनां कियतां शकुनानां कर्ण ददासि / 1 एतदारुह्य का कौ०८
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b86c1ad510c2752a8f8f66b8eaa253fd2d55bb822c235f0518fdfff428f6feed.jpg)
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98