Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 75
________________ महाकविश्रीरामचन्द्रसूरिविरचितं (सर्वे परिक्रामन्ति) (ततः प्रविशति कापालिकः / ) कापालिक:-(साश्चर्यम् ) आद्यं यत् किल बीजमन्धतमसक्लिन्नस्य दुःखोदधे__ श्वेतः पर्वणि तत्र कुत्रचिदपि श्लाघ्ये समुत्कण्ठते / वेषस्त्वेष नरास्थिहार-रशना ताडङ्क-चूडामणि प्रायः शंसति तापसी स्थितिमहो! रोमाञ्चिताः कौतुकैः॥६॥ बटुः-( उपसृत्य ) भगवन् ! एष सार्थवाहः प्रणमति / कापालिक:-(कौमुदीं विलोक्य सहर्षमात्मगतम् ). ___ यन्निमित्तं पुरा भ्राम्यन् क्लेशावेशमशिश्रियम् / तदेव स्वयमायातमहो! वेधाः प्रियङ्करः // 7 // (पुनः सादरमिव प्रकाशम् ) कोज भोः ! 1, पाद्यं पाद्यम् , अधैर्घः / (पुनर्बटुं प्रति ) उपनयाऽऽसनानि / (बटुस्तथाकरोति / ) कापालिक:-सार्थवाह ! साम्प्रतं कुतः / . मकरन्दः-साम्प्रतं व्याघ्रमुखीतः / / (कापालिको बटोः कर्णे एवमेव / ) . (बटुः निष्क्रान्तः / ) कापालिकः-(पुनः सस्पृहं कौमुदीमवलोक्य ) इयं का? / मकरन्दः- इयं मे भ्रातृजाया / कापालिकः-पतिरस्याः सार्थमध्ये तिष्ठति / मकरन्दः-अस्याः पत्युरवस्थानं यूयमेव निरर्गलज्ञानजुषो ज्ञास्यथ / कापालिक:-इयमपरा का। मकरन्द:-इयं मे सधर्मचारिणी / कापालिका-(कौमुदीमवलोक्य स्वगतम् ) चलकमलविलासाभ्यासिनी नेत्रपत्रे, दशनवसनभूमिबन्धुजीवं दुनोति / स्मरभरपरिरोहत्पाण्डिमागूढरूढ द्युतिविजितमृगाङ्का मोदते गण्डभित्तिः॥८॥.. 1 दुःखावधेः क। 2 °मधितिष्ठति ख /Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98