Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 59
________________ महाकविश्रीरामचन्द्ररिविरचितं विजयवर्मा-माधव्य! नव्यां कामप्यद्य भगवतो यक्षाधिराजस्य पूजां विरचय / खयं च वयमय बलिं विधायाम इत्युपहारपशुः पवित्रयित्वा प्रगुणीकार्यः / यदादिशति रत्नाकराधिपतिः / ( इत्यभिधाय माधव्यो निष्क्रान्तः / ) विजयवर्मा-(सविनयं मैत्रेयं प्रति) प्राणेभ्यो नापरं वस्तु प्रेमपात्रं वपुष्मताम् / ते च मे युष्मदायत्ताः किं ब्रुवेऽहमतः परम् ? // 5 // मैत्रेया-किमेवमादिशन्ति मण्डलेश्वरपादाः 1, धात्रीधरैकधुरबाहुषु किं नृपेषु, पुष्णाति भद्रमुदरम्भरिरध्वनीनः / युष्मादृशान् घटयितुं विधिरुन्मदिष्णुः, श्रेयांसि तत्र पुनरौपयिकं स्थितोऽहम् // 6 // . सुनन्दः-(साश्चर्यम् ) देव! सेयं महत्त्वस्य गाम्भीर्यस्य च परा काचिदुपनिषत / विजयवर्मा-माहात्म्यदर्पसर्पमसंस्पृशन्तो यत्किश्चिदपि समादिशत यूयम् / अहं पुनस्तत्रभवतो भवतो विना प्राणितमात्मनो विधेरप्यविधेयमाकलयामि / मैत्रेयः-रत्नाकराधीश्वर ! . सम्पत्ति विपत्तिर्वा रोहन्ती दैवमीक्षते। एवमप्यर्थिताऽन्येषु पुंसां क्लैब्याय केवलम् // 7 // सुनन्दः-देव ! विरमतु कथेयम् / अनया खलु द्विजराजपादाः महतीं अपामुद्वहन्ति / विजयवर्मा निष्कामुपकारोऽपि विश्वोत्तीर्णा सतां क्रिया। अप्रकाशस्तु यस्तस्य तत्र ब्रह्मापि मन्थरः॥८॥ सुनन्दः -देव ! पश्चषाः सन्ति ते केचिदुपकर्तुं स्फुरन्ति ये। ये स्मरन्त्युपकारस्य तैस्तु वन्ध्या वसुन्धरा // 9 // विजयवर्मा-किमेवमार्यानप्युपकार्याननाः संक्लेशितः सन्तर्जयसि / प्रत्युपकारमाधातुमनुरूपं निरोजसः। उपकारं स्मरन्तोऽपि विस्मरन्ति महौजसः // 10 // (पुनमैत्रेयं प्रति सविनयम् ) एते ते मदवारिशीकरभरस्यूताम्बराः सिन्धुरा__ स्तेऽप्येते प्रलयप्रभञ्जनजवप्रत्यर्थिनो वाजिनः / श्रीरेषा शरदिन्दुदर्पजयिनी सोऽहं कृतज्ञस्ततो, येनार्थस्तममीषु यूयमचिराद् गृहीत किं शङ्कया? // 11 //Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98