Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 62
________________ कौमुदीमित्राणन्दरूपकम् / (.पुनः कपिञ्जलं प्रति ) यदयं दुर्मुखः समर्पयति तत् सुगृहीतं कुरु / ( पुनः कर्णे एवमेव / ) (सदुर्मुखः कपिञ्जलो निष्क्रान्तः / ) (नेपथ्ये) भो भो उपवनचारिणः ! सम्पन्ने निःशेषेऽप्युपहारोपकरणे किमद्यापि विलम्बते रत्नाकराधिनाथः / विजयवर्मा- ( आकर्ण्य मैत्रेयं प्रति ) यूयमागच्छत यक्षायतनम् / समीपीभूय कारयतोपहारकर्म / . (सर्वे यक्षायतनमुपसर्पन्ति / ) विजयवर्मा-(मैत्रेयं प्रति ) सोऽयमस्माकं कुलदेवता लोहितपाणिर्यक्षाधिनाथः। (पुनः सखेदम् ) कथं बहलधूपधूमध्यामलितलोचनैरस्माभिर्यक्षाधिनाथस्यापि मुखाम्भोज न विलोक्यते / (प्रविश्य ) कपिञ्जल:-देव ! सोऽयं नियत्रितभुजः कृताशेषवध्यमण्डनः पुरो लोहितपाणेरुपहारपुरुषः। . (ततः प्रविशति यथानिर्दिष्टः पुरुषः / ) विजयवर्मा-(मैत्रेयं प्रति ) भगवन् ! कुरुतास्योपहारपुरुषस्य प्रोङ्क्षणादिकां क्रियाम् / अयच्छत पारलौकिकं कमप्युपदेशम् / . ( मैत्रेयः प्रोणादिकं कृत्वा धूपपात्रं दर्शयति / ) विजयवर्मा-कोज भोः ! कृपाणधारेषु / / __ (प्रविश्य पुरुषः कृपाणमर्पयति / ) विजयवर्मा-( कृपाणमाकृष्य ) रे ! स्मर किमपि दैवतम् / अस्तमयति परमतस्ते जीवितकथा / मैत्रेयः- भो उपहारपुरुष! दैवादुपस्थिते मृत्यौ क्षीणसर्वप्रतिक्रिये। तथा कथश्चिन्मर्तव्यं न मर्तव्यं यथा पुनः // 16 // अहं च सर्वदर्थानां क्रिया कुशलो विशेषतचाहतीषु, तत् कथय किं ते कुलम् ?, किं ते कुलक्रमागतं दैवतम् ?, येन तदुचितां पारलौकिकी क्रिया कारयामि / अपि च 1-2 प्रेक्षणादिकां का

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98