Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 66
________________ कौमुदीमित्राणन्दरूपकम् / -वृद्धा-वत्से ! दिट्ठिया, चिट्ठदि दे पई मित्ताणंदो रयणायरउरे / एसा वि मह पुत्ती सुमित्ता तुह पइणो मित्तस्स मयरंदस्स रयणायराहिवइणा परिणेदुं पडिवादिदा वट्टदि। स्थविरः-(सभयम् ) एषा व्याघ्रमुखी पल्लिरावासो वज्रवर्मणः। चौरेभ्यो भयमेतस्यां राज्ञोऽपि किमु मादृशाम् ? // 2 // ततः सर्वामिरपि सर्वतो दत्तदृष्टिभिः पिहितनेपथ्याभिर्वाचंयमाभिश्च त्वरिततरं गन्तव्यम् / (सर्वाः सभयं परिक्रामन्ति / ) बालक:-अम्ब ! बुभुक्खिदो म्हि / (वृद्धा हस्तसंज्ञया बालकं वारयति / ) बालक:-( तारस्वरं प्रलपन् ) अम्ब ! अपूपं देहि मे / स्थविरः-(सरोषं यष्टिमुद्यम्य ) अरे! तिष्ठ, मा रोदीः, अन्यथा कर्णावुत्पाटयिष्यामि / (बालकः सभयमास्ते / ) सर्पकर्ण:- यथाऽयं भारभुग्नकन्धरः शनैःप्रचारी स्थविरस्तथा जाने सद्रविणोऽयं सार्थः / भवतु / स्थविरं पृच्छामि / (उच्चैःस्वरम् ) आर्य ! क प्रस्थितोऽसि / स्थविरः-(स्वगतम् ) यथाऽयं तरलदृष्टिस्तथा जाने चौरप्रणिधिः / (प्रकाशं साक्षेपम् ) किं तेऽस्मद्गमनचिन्तया ? / व्रज यत्र चलितोऽसि / - सर्पकर्णः-नूनमयं मां ज्ञातवान् / भवतु / पल्लीपतये गत्वा विज्ञपयामि / (इति विचिन्त्य शनैः शनैर्निष्क्रान्तः / ) . स्थविरः- यदि मां तस्करा बनन्ति वा व्यापादयन्ति वा तदा बालकं गृहीत्वा सर्वाभिरपि पलायितव्यम् / ( नेपथ्ये) धेलेध ले! धलेध, मालेध ले ! माळेध, बेढेध ले ! वेढेध / स्थविरः-हा! हताः सः / कथं तस्कर समापतन्ति ? / 1) वत्से 1 दिष्टया, तिष्ठति ते पतिमित्राणन्दो रत्नाकरपुरे। एषाऽपि मम पुत्री सुमित्रा तव पत्युमित्रस्य मकरन्दस्य रत्नाकराधिपतिना परिणेतुं प्रतिपादिता वर्तते / 2) अम्ब ! बुभुक्षितोऽस्मि / 3) धरत रे। धरत, मारयत रे! मारयत, वेष्टयत रे / वेष्टयत / 1 मेत्तस्स ख। कौ०७

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98