Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 63
________________ 46 महाकविश्रीरामचन्द्रसूरिविरचितं पन्धुभिर्विप्रयुक्तोऽहमिति चेतसि मा कृथाः / बन्धूनां सम्प्रयोगेऽपि त्वमेव सहसे व्यथाः // 17 // पुरुषः-(मन्दस्वरम् ) आर्य ! गाढबन्धनपीडया शुष्कतालुमूला स्तोकमपि वक्तुमहं न प्रभविष्णुः, ततः शिथिलय मे मनाग् बन्धनानि, पायय शिशिरस्य वारिणथुलुकमेकम् / विजयवर्मा-कोत्र भोः! 1 / (प्रविश्य ) पुरुषः-एषोऽस्मि / विजयवर्मा-अरे मदनक ! शिथिलय बन्धनानि, पायय शिशिरमम्मः / . (मदनकस्तथाकरोति / ) पुरुषः-आर्य! कौतुकमङ्गालनगरजन्मा वैदेशिकोऽहम् / / मैत्रेयः-(स्वगतम् ) कौतुकमङ्गलनगरजन्मेत्यस्ति नः पक्षपातः / भवतु तावत् / (प्रकाशम् ) कौतुकमङ्गलनगरे कस्ते पिता ?, किं ते मित्रम् 1 / पुरुषः-(निःश्वस्य ) आर्य! कृतमिदानी वेतस्मिंत्रिलोकीत्रपाप्ररोहैकहेतौ पशुसमचिते मरणपर्वणि कुलाचारपवित्राणां पितृ-मित्राणां प्रकाशनेन, न मे पितरौ, न मे मित्राणि, किमुताहमेकाकी गगनग दिव पतितः। मैत्रेयः-(स्वगतम् ) महाकुलप्रसूतः खल्वयम्, महासत्त्वप्रकृतिश्च कोऽपि / (पुनर्विमृश्य ) अपि नामायं कोऽपि जिनदासवर्गीणः सम्भवेत् ततो निर्बन्धेन पृच्छामि / (प्रकाशम् ) महापुरुष ! यत एव ते पवित्राणि पितृ-मित्राणि तत एवाकाण्डोपस्थिते मरणविवरे समुद्घोषणीयानि / पुरुषः-आर्य ! जिनदासो मे पिता, मित्रं मकरन्दो मैत्रेयश्च / मैत्रेयः-हा भ्रातः मित्रवत्सल मित्राणन्द ! कामिमां दुस्थामवस्थामधिगतोऽसि? (इत्यभिदधानः पुरुषं परिरभ्य तारस्वरं प्रलपति / ) सर्वे-(ससम्श्रमम् ) आर्याय मैत्रेय! किमिदम् / मैत्रेया-मण्डलाधिनाथ ! स एष मित्रं मे मित्राणन्दो यदर्थ यूयमभ्यर्थिताः / विजयवर्मा-(ससम्भ्रमं कृपाणेन स्वयं बन्धनानि त्रोटयति / पुनः सविनयम्) महापुरुष ! क्षमख यदस्माभिरज्ञातसम्बन्धैरपराद्धम् / पुरुषा- ममैव कर्माण्यत्रापराध्यन्ति, न यूयम् / विजयवर्मा अपराधोऽत्र नामाकं न च प्राचीनकर्मणाम् / किन्तु कामरतेस्तस्य पापतनस्य मन्त्रिणः // 10 //

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98