Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 58
________________ कौमुदीमित्राणन्दरूपकम् / मदनकः-(सभयम् ) ततस्ततः ? / मङ्गलकः- ततः प्रहतसर्वाङ्गीणमर्माणं कण्ठगतप्राणं विजयवर्माणं विलोक्य विषादी निषादी शनैः शनैः गजराज प्रतिनिवर्त्य खं शिबिरमायातवान् / मदनकः-अहह ! विक्रमबाहोः प्रतापक्षयः / ( पुनर्विमृश्य ) आर्य! कोऽयं द्विजातिमैत्रेयः ?, कथं च विजयवर्मणे सङ्घटितवान् / मङ्गलकः-अयं च किल वैदेशिकः सैनिकैर्धमद्भिर्विपक्षप्रणिधिरिति मन्वानैः सह्य विजयवर्मणे समुपनीतः / विजयवर्मणा च प्रहारप्रसूतप्रभूतवेदनामूर्छालेन तदात्व एवं व्यापादयितुमादिष्टः। मदनकः-ततस्ततः / मङ्गालकः-ततो 'मास्म मां व्यापादयः, तवाहं महान्तमुपकारमाधास्यामि' इत्यभिधाय मैत्रेयः केनाप्यौषधद्रवेणोपलिप्य विजयवर्माणं प्ररूढसर्वाङ्गीणव्रणमकरोत् / मदनकः-(सकौतुकम् ) क नाम प्राणसंहारी सर्वाङ्गीणव्रणोदयः / कं च मैत्रेयसम्पर्कः पर्ववल्लीप्ररोहभूः ? // 3 // मङ्गलकः-किमंदः कौतूहलम् / / अभिमुखवर्तिनि वेधसि पुण्यगुणावर्जितानि सर्वाणि / द्वीपान्तरस्थितान्यपि पुरः प्रधावन्ति वस्तूनि // 4 // तत् कथय व प्रस्थितोऽसि / मदनकः-देवेन भगवतो लोहितपाणेः पुरुषोपहारं कर्तुकामेन वैदेशिकस्य . कस्यापि गवेषणाय प्रेषितोऽस्मि / मङ्गलकः-इदानीं किं करोति देवः ? / मदनकः- एष यक्षोपवने मैत्रेयेण सह किमपि जल्पन्नस्ति तंत्र व्रज त्वम् / अहमपि यथादिष्टमादधामि / (इति निष्क्रान्तौ।) // विष्कम्भकः॥ (ततः प्रविशति यथानिर्दिष्टः समैत्रेयो विजयवर्मा सुनन्दप्रभृतिकश्च परिवारः / ) विजयवर्मा-कोज भो!?। (प्रविश्य ) माधव्यः-एषोऽस्मि / 1 किमिदं कौक। 2 यक्षायतने ख। 3 ततो ख। .Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98