Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 36
________________ कौमुदीमित्राणन्दरूपकम् / मित्राणन्दः-प्रिये कुङ्मलाग्रदति ! अपरसार्थवाहानां प्रतिपत्ति बोधयित्वा किमप्यपरमादिश / कौमुदी-एदं खु अम्हाणं कवडतावसपेडयं / मैत्रेयः-ततस्ततः / कौमुदी-तेंदो जो को वि पभूददविणो सत्थवाहो भोदि तस्स अहं परिणेदुं दिजामि। मित्राणन्दः-( सौत्सुक्यम् ) ततस्ततः / कौमुदी-तेंदो मए सह कीलिदुं पण्णसालब्भन्तरे उवविसंतु चिअ पल्लंकतिरोहिदकूविआए निवडदि। कुन्दलता-(विहस्य ) एंसा सा अवरसत्थवाहाणं पडिवत्ती / कौमुदी - अहं उण पुव्वसंचिअंपि दविणं संगहिअ पण्णसालभंतरदुवारेण तुम्हेहिं सह समागमिस्सं / मित्राणन्दः-( सरभसम् ) ततः परं क्क गन्तव्यम् ? / कौमुदी-सिंहलदीवे गंतव्वं / मित्राणन्दः-मित्रमप्यावयोस्तत्रैव सङ्घटिष्यते / कुन्दलता-(मित्राणन्दं प्रति) तहँ कह वि जणो वेसाहिं अत्थलोहेण अत्थि वेलविओ। जह पिम्मभिंभलासु वि न तासु वीसासमोअरइ // 12 // तदो मा खु तुम्हे अवरसत्थवाहपडिवत्तिसवणतरलिदहिदया निसग्गणिग्गएसु वि कोमुईवयणेसु वीसंभं न करिस्सध। मैत्रेयः-कुन्दलतिके ! किमेवं सार्थवाहस्य चातुरीवैमुख्यमुद्भावयसि ? / स्नुही-गवा-ऽर्कदुग्धानां दृश्यं यदपि नान्तरम् / तथाप्यास्वादपार्थक्यं जिह्वाऽऽख्याति पटीयसी // 13 // 1) एतत् खलु अस्माकं कपटतापसपेटकम् / 2) ततो यः कोऽपि प्रभूतद्रविणः सार्थवाहो भवति तस्मै अहं परिणेतुं दीये / 3) ततो मया सह क्रीडितुं पर्णशालाभ्यन्तरे उपविशन्नेव पल्यङ्कतिरोहितकूपिकायां निपतति / 4) एषा साऽपरसार्थवाहानां प्रतिपत्तिः / 5) अहं पुनः पूर्वसञ्चितमपि द्रविणं संगृह्य पर्णशालाभ्यन्तरद्वारेण युष्माभिः सह समागमिष्यामि / 6) सिंहलद्वीपे गन्तव्यम् / 7) तथा कथमपि जनो वेश्याभिरर्थलोभेनास्ति विडम्बितः। यथा प्रेमविवलास्वपि न तासु विश्वासमवतरति॥ 8) ततः मा खलु यूयं अपरसार्थवाहप्रतिपत्तिश्रवणतरलितहृदया निसर्गनिर्गतेष्वपि कौमुदीवचनेष विश्रम्भं न करिष्यथ /

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98