Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 34
________________ कौमुदीमित्राणन्दरूपकम् / कुन्दलता-संहि ! कीस अत्ताणयं विसायपिसाएण संतावेसि ? / अंगाण सन्निवेसो हलिअसुआणं पि तत्तिओ चेअ / वेसेणं चिय लायण्णविम्हओ धणवइसुआणं // 4 // मैत्रेयः-पश्य कौतुकम् , प्रकृतिचपलं चक्षुर्वाचः स्थिरा हरिणीदृशः, सरलिमपदं नासान्यासो, भ्रुवौ कुटिलस्थिती। नवधवलिमा गण्डाभोगोऽधरः किसलारुणः, किमपि गुपिला नाभिर्वक्षः प्रकाशपयोधरम् // 5 // कुन्दलता-अवि य काणं पि अंगलट्ठी भूसिज्जइ भूसणेहिं तरुणीणं / भूसिजइ उण काणं पि भूसणं अंगलट्ठीए // 6 // मित्राणन्दः - ( उपसृत्य ) प्रिये ! लावण्यपुण्यपुण्येष्वपि किमात्मनोऽङ्गेषु वृथा वैराग्यमुद्वहसि / गात्रं सन्नतगात्रि ! नेत्रसुखदं, निःश्वासपूरांहति र्नासाऽऽह्लादकरी, रदच्छदसुधा जिह्वाऽतिसाहित्यकृत् / नादः किन्नरकण्ठि ! कर्णसुखदो, वक्षोजलक्ष्मीरियं / __ वक्षः प्रीणयते, मृगाक्षि ! वद ते किं नेन्द्रियाणां मुदे ? // 7 // कौमुदी-(कण्ठिकां विलोक्य सात्त्विकभावान् नाटयति / पुनः स्वगतम् ) इत्तिअकालं तादस्स अणुरोहेण मए अप्पा विडंबिदो / इआणि पुण एवं चेअ नयण-मणमहूसवं सत्यवाहं अणुसरिस्सं / कुन्दलता-सत्थवाह ! तेण मणिणा किं पि तुम्हाणं उवकिदं ? / मैत्रेयः-कौमुदीहृदयकार्मणं किमपि वस्तु तदानीमेवोपनयता तेन रत्नेन महदुष्कृतम् / मित्राणन्दः-कुन्दलतिके ! अस्मन्मनःसङ्ग्रहणसत्यङ्कारस्त्वया समुपनीतस्तदानीमसौ मणिविशेषः / 1) सखि ! कस्मादात्मानं विषादपिशाचेन सन्तापयसि ? / अङ्गानां सन्निवेशः हालिकसुतानामपि तावानेव / वेशेनैव लावण्यविस्मयः धनपतिसुतानाम् // 2) अपि च-कासामपि अनयष्टिः भूभ्यते भूषणैः तरुणीनाम् / भूष्यते पुनः कासामपि भूषणं अङ्गयष्टिना। 3) इयत्कालं तातस्यानुरोधेन मयाऽऽत्मा विडम्बितः / इदानीं पुनरेतमेव नयन-मनोमहोत्सवं सार्थवाहमनुसरिष्यामि। 4) सार्थवाह ! तेन मणिना किमपि युष्माकमुपकृतम् ? / को०३

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98