Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 45
________________ 28 . महाकविश्रीरामचन्द्रसूरिविरचितं मित्राणन्दः-प्रिये ! मार्गपरिलङ्घनेनापि तावदतितरां परिश्रान्ताऽसि, साम्प्रतं पुनः कात्यायनीप्रतिभयमप्यभूत् , ततस्ते वपुषि समुद्वेगः, तन्मास्म किमपि विरूपमाशतिष्ठाः। ( नेपथ्ये ) ऐसा चोलपदपद्धई कच्चायणीभवणं पविट्ठा / अओ वलं लायपुत्ते पमाणं / मित्राणन्दः-( आकर्ण्य सभयम् ) यथाऽयमानुपदिकस्य व्याहारः तथा जाने योऽयं करकलितासिधेनुनिःसृत्य गतः व्यक्तमसौ चौरः। तदिदानी तस्करस्थानोपलब्धैरस्माभिः किमनुष्ठेयम् / . ( कौमुदी कम्पते / ) ( नेपथ्ये ). इहैव पदपद्धतिर्विशति पार्वतीमन्दिरे, तदत्र बहिरास्यतां निभृतवृत्तिभिः पत्तिभिः। अयं स धृतजीवितः परगृहा-ऽदृलुण्टाचणो, नियम्य परिगृह्यतां द्रविणघस्मरस्तस्करः॥१४॥ ( कौमुदी मूर्छामभिनयति / ) ( नेपथ्ये) भो भोः पदातयः! कृतावधानैर्मध्ये प्रवेष्टव्यम् , अपि नाम दस्युः प्रहारमादधीत / मित्राणन्दः-( विलोक्य ) सपरिकरः प्राप्तः पुरीरक्षकः / (ततः प्रविशति कालपाशः दीर्घदंष्ट्र-वराहतुण्डप्रभृतिकश्च परिवारः / ) कालपाशः-दीर्घदंष्ट्र ! [ मध्य ]मवलोकय / / दीर्घदंष्ट्र:-( विलोक्य ) राजपुत्र ! अस्ति किमपि मानुषमभ्यन्तरे / कालपाशः-(सक्रोधमुच्चैःस्वरम् ) मुषित्वा पौराणां नवकनक-माणिक्यघटितां श्चिरं काश्ची-चूडामणि-मुकुट-ताडङ्क-कटकान् / करे यासि क्षुद्र ! ?, द्रुततरमगाराद् भव बहिः, ___ स्वयं क्रुद्धस्तुभ्यं पितृपतिरिदानीं न भवसि // 15 // मित्राणन्दः-प्रिये ! उत्तिष्ठोत्तिष्ठ, प्राप्ता राजपदातयः / (उभौ बहिर्भवतः / ) (कौमुदी परिधानपटेन करण्डकं पिदधाति / ) 1) एषा चौरपदपद्धतिः कात्यायनीभवनं प्रविष्टा / अतः परं राजपुत्रः प्रमाणम् /

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98