Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 49
________________ [॥अथ पञ्चमोऽङ्कः॥] (ततः प्रविशति अमात्यः कामरतिः।) कामरतिः-कोज भोः ! असत्परिजनेषु / (प्रविश्य ) विनयन्धरः-एषोऽस्मि / कामरतिः लक्ष्मीपयोधरोत्सङ्गसुभगङ्करणांसभूः। कुमारो रङ्गशालाया मध्यमद्य प्रवेक्ष्यति // 1 // ततः समादिश सङ्गीतकाय गन्धर्वलोकान् / अलङ्कारय विचित्रमणि-मौक्तिकप्रा-- लम्बैश्वीनांशुकावचूलैश्च पुरगोपुरतोरणानि / विधापय मन्दिरद्वारालिन्दकेषु मसृणघुसृणगोमुखानि / निर्मापय प्रतिवेश्म बहलपरिमलाकृष्टमधुकरीमधुरझङ्कारमुखराणि मृगमदद्रवच्छटाच्छोटनानि / सर्वमचिरादाचरामि / ( इत्यभिधाय विनयन्धरो निष्क्रान्तः / ) कामरतिः-( पुनर्विमृश्य ) कोज भोः ! 1 / (प्रविश्य ) शिखण्ड:-आदिशतु मत्री। .. कामरतिः- अद्य किल नगरोद्यानमधिवसतः कुमारस्य लक्ष्मीपतेरभिमुखं मुषितान्यभूप लक्ष्मीखयङ्ग्रहमहग्रहिलैकबाहुः। मार्ग कियन्तमपि सैन्यवृतो यियासुः, श्रीसिंहलावनिवधूपरमेश्वरोऽयम् // 2 // ततो गत्वा ब्रूहि गजसैन्याधिपतिं पुण्डरीकम्-यथा करटिघटां प्रगुणय, विशेषतश्च जयमङ्गलाभिधानं गजराजम् , हरिषेणं च वाजिसैन्याधिपतिं वाजिसेनासन्नहनाय समादिश। ( शिखण्डः प्रणम्य निष्क्रान्तः / ) (नेपथ्ये) इत इतः सिंहलेश्वरः। . 1 हर्षेण च वाजिनं सैन्या क०।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98