Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 47
________________ महाकविश्रीरामचन्द्रसूरिविरचितं __कौमुदी-( सदैन्यं पादौ संस्पृश्य ) ताद ! मिल्हेहि मे निरवराहं भत्तारं / देहि / पइमिक्खं / कालपाशः-( साक्षेपम् ) आः पापे ! तस्करपति ! दूरस्थिता ब्रूहि / माऽस्मानुपस्पृश। ( कौमुदी सबाष्पमधोमुखी भवति / ) कालपाश:-( विमृश्य ) कोऽत्र भोः।१। (प्रविश्य ) वज्राङ्करः-ऐसो म्हि, आणवेदु लायउत्तो। कालपाश:-अरे वज्राङ्कर ! वादय वध्यपटहम्, उपनय सरासमं श्वपाकम् / जं आणवेदि शामी / ( इत्यभिधाय वज्राङ्कुरो निष्क्रान्तः / ) ( नेपथ्ये दुःश्रवो वध्यपटहध्वनिः / ) कालपाशः- वराहतुण्ड ! प्रलम्बय तस्करस्य केशान् / सन्दानय भुजौ / (वराहतुण्डस्तथाकरोति / ) ( कौमुदी तारस्वरं प्रलपति।) मित्राणन्द:-प्रिये! मा विषीद कृतं बाष्पैः फलं मर्षय कर्मणाम / सत्यं विषाद-शोकाभ्यां न दैवं परिवर्तते // 17 // (प्रविश्य सरासभः ) श्वपाकः-ऐशे म्हि, आणवेदु शामी / कालपाशः- अरे खङ्गिल ! प्रसाधय रक्तचन्दनेन तस्करस्य शरीरम् / निक्षिप शरावमालां कण्ठे। मित्राणन्दः- राजपुत्र ! किमस्य श्वपाकस्य संस्पर्शनेन मामपवित्रयसि 1 / कालपाशः-हला दुष्टे ! तर्हि त्वमेव समाचर श्वपाककरणीयं निजे भर्तरि / ( कौमुदी रक्तचन्दनेनोपलिप्य शरावमालां कण्ठे निक्षिपति / ) कालपाशः-दीर्घदंष्ट्र ! रासभमधिरोपय तस्करम् , इमां च योषितं मूर्धकृतकरण्डिकां रासभस्याग्रे कुरु / ___(दीर्घदंष्ट्रः सर्वमाचरति / ) 1) तात! मुश्च मे निरपराधं भर्तारम् / देहि पतिभिक्षाम् / 2) एषोऽस्मि, आज्ञापयतु राजपुत्रः / 3) यदाज्ञापयति स्वामी। 4) एषोऽस्मि, आज्ञापयतु स्वामी।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98