Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 46
________________ 29 कौमुदीमित्राणन्दरूपकम् / - कालपाश:-( साक्षेपम् ) अरे ! कस्त्वमसि / / मित्राणन्दः-( सकम्पम् ) राजपुत्र ! पथिकोऽहम् / कालपाश:-इयं वनिता का ? / मित्राणन्दः-मम सधर्मिणीयम् / कालपाशः-बाले ! करण्डिकायां किमस्ति ? / कौमुदी- ( सकम्पम् ) संबैलयं किं पि अस्थि / वराहतुण्डः-( करण्डिकामुत्पाट्य विमुच्य च कालपाशं प्रति ) प्रभूतद्रविणसारभारेण न शक्यते समुत्पाटयितुम् / कालपाशः-( सोपहासम् ) बाले ! शम्बलस्य किमियान् भारः 1 मध्यस्थिता चौर्य कारयसि / / कौमुदी-तांद ! अहं चोरिअं सिविणे वि न पिच्छामि / कालपाशः-प्रत्यक्षमपि पश्यन्ती स्वप्ने न किं करिष्यसि ? / ( पुनः सावहित्थम् ) दीर्घदंष्ट्र ! विधेहि किमप्यस्य समयोचितमातिथ्यम् / ( दीर्घदंष्ट्रो यष्टिना प्रणिहन्तुमारभते / ) ( कौमुदी सपूत्कारमन्तरा निपतति / ) कालपाशः- वनितायां प्रहारः प्रयत्नतो रक्षणीयः / मित्राणन्दः-राजपुत्र ! भिन्नयानपात्रो वणिगहमुद्वरितशेष किमपि द्रविणमादाय खनगरं प्रति प्रचलितः / ततो वृथातस्करापवादेन किं मां विगोपयसि ? / चौर्यचिहूं किमप्युपदिश्य साक्षिणं वो कमप्युपस्थाप्य गृहाण वा मुषाण वा बधान वा / कालपाशः-आभरणकरण्डकादप्यपरं किं नाम चौर्यचिह्नम् / मित्राणन्दः-राजपुत्र ! ममैव द्रविणमत्र करण्डके / कालपाशः-सर्वमपि राज्ञः पुरतो वक्तव्यम् / मित्राणन्दः-( सदुःखमात्मगतम् ) यत् पोतस्य सुवर्ण-मौक्तिकनिघेर्भङ्गो वियोगो निजै. र्यन्मातापितृभिर्विदेशवसतिर्येयं न तद् बाधते। मिथ्या यः पुनरिन्दुशुभ्रयशसो गोत्रस्य लक्ष्मैकभू रैकागारिकविप्लवः प्रतिमुहुर्दुःखाकरोत्येष माम् // 16 // 1) शम्बलकं किमप्यस्ति / 2) तात ! अहं चौर्य स्वप्नेऽपि न पश्यामि /Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98