Book Title: Kaumudi Mitranand Rupakam Author(s): Punyavijay Publisher: Bharatiya Vidya BhavanPage 51
________________ महाकविश्रीरामचन्द्रसूरिविरचितं राजा-क्कासौ कासौ ? / ( ततः प्रविशति कालपाशेन केशैर्गृहीतो मित्राणन्दः मूर्धकृतकरण्डिका कौमुदी च / ) राजा-( साश्चर्यम् ) अमुना नेत्रसुधाञ्जनैकसुहृदाऽप्याकारेण चौर्यकरणम् / अहो ! विचित्रः कर्मणां विपाकः / कामरतिः-( कौमुदीमवलोक्य साभिलाषमात्मगतम् ) कामं कामं कुसुमधनुषोऽप्यावहन्ती सशोके, __ लोकेऽप्यस्मिन् यदि मृगहशामीहशी रूपलक्ष्मीः। क्लेशाकीर्णे तपसि विपुलखर्गभोगोत्सुकानां, मन्दीभूता खलु तदधुना प्राणभाजां प्रवृत्तिः॥४॥ राजा-(साक्षेपम् ) रे रे तस्कर ! कस्तवात्र जनकः ? कः सोदरः ? कः सुतः ?, .. ___ कस्त्राता ? किमु मित्रमस्ति ? सदनं ते कुत्र ? के बान्धवाः / कस्येयं कुसुमेषुकेलिसरसी सर्वाङ्गरम्या प्रिया ?, . केनाथ व्यसनेन विह्वलमना मुष्णासि नः पत्तनम् ? // 5 // मित्राणन्दः-(सभयम् ) देव ! समुद्रोपजीवी मित्राणन्दनामा वणिगहं उद्वरितशेषं कियदपि द्रविणमादाय स्वनगरं प्रति प्रचलितः / अत्र च मे देव एव त्राता पिता बान्धवो वा / इयं च मे सधर्मचारिणी / नगरमहं मुष्णामि न वा ? इत्यत्र देवः प्रमाणम् / राजा-अरे कालपाश ! करण्डकाभ्यन्तरमवलोकय / ... कालपाशः-(विलोक्य ) देव! एतानि सप्त कुण्डलानि, त्रयोदश मञ्जीराणि, एते चैकविंशतिरङ्गदाः, सप्तदश चूडामणयः, अपरस्य पुनर्वज्रप्रायस्य रत्नसमूहस्य न शक्यते सङ्ख्यानमाधातुम् / राजा-भद्रे ! त्वदीयमेतदाभरणम् / कौमुदी-(सलज्जम् ) अंध ई। राजा-अमात्य! दम्पत्योरियमाकृतिरयं च वाचां दृशां च विनिवेशः। पिशुनयति साधुभावं चौर्य तु करण्डको वदति // 6 // कामरतिः- देव ! मा शतिष्ठाः / तस्कर एवायम् / कथमपरथा विषमसङ्ख्योऽयं नेपथ्यप्रकारः / 1) अथ किम् ? / 1 अथ क। 2 दैवं ख। 3 एतस्य ख। 4 दिशति ख /Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98